________________
श्रीभग० लघुवृत्तौ
DOGPOLDO DEL DO
भाव इति, द्रव्यपर्यायव्याख्यानेऽपि न द्रव्यपर्याययोरत्यन्त मेदः तथाऽनुपलब्धेः यश्व प्रतिभासमेदो नासावात्यन्तिकतद्भेदकृतः, किन्तु पदार्थानामेव तुल्यातुल्यरूपकृत इति, जीवात्मा - जीवरूपं, इह तु व्याख्याने खरूपवतो न खरूपमत्यन्तं भिन्नं, भेदे हि नि:स्वरूपता तस्य प्राप्नोति न च शब्दभेदे वस्तुनो भेदोऽस्ति शिलापुत्रकस्य वपुरित्यादाविवेति । 'पुब्वामेव रूवी भवित्त 'ति (सू. ५९८ ) पूर्व विवक्षितकालात् शरीरादिपुद्गल सम्बन्धात् मूर्ती भूत्वा मूर्त्त इत्यर्थः, अरूविं'ति अरूपिणममूर्तमात्मानमिति गम्यते जानामि विशेषज्ञानेन 'पासामि पश्यामि सामान्येन दर्शनेन 'बुज्झामि ति बुध्ये- श्रघे अभिसमागच्छामीति सर्वज्ञानभेदैः परिच्छिनधि, अनेन वर्त्तमानज्ञानमुक्तं, अथातीतकाले एभिरेव धातुभिस्तदुच्यते - अभिसमन्वागतमितियावत् ता गय सत्ति तथा देवत्वं प्राप्तस्य 'सरूविस्स' मूर्त्तस्य सवेदस्य-रूयादिवेदयुक्तस्येत्यादि, 'सच्चेवणं भंते! से जीव 'त्तियो देवादि - रभूत् स एवासौ भदन्त ! जीव: पूर्व पश्चात् 'अरूवि'त्ति अवर्णादिः, 'रूवित्ति वर्णादिमचं 'नो एवं पण्णायति'त्ति नैवं वे वलिनाऽपि प्रज्ञायते, असवाद्, असत्वं च मुक्तस्य कर्मबन्धाभावेन शरीराभावाद् वर्णाद्यभाव इति न रूपी भूत्वा अरूपी स्यादिति ।। १७ शते द्वितीयः ॥
'नष्णत्थेगेण परप्पओगेणं' इति (सू. ५९९) 'णो इणट्ठे समट्ठे' ति योऽयं निषेधः सोऽन्यत्र, कस्मात् ?, परप्रयोगाद्, एजनादिकारणेषु मध्ये परप्रयोगेणैवैकेन शैलेश्या मेजनादि स्यात्, न कारणान्तरेणेति भावः, 'दब्वेयण' ति नारकादिजीव सम्पृक्तपुद्ग़लद्रव्याणामेजना - चलना द्रव्यैजना, 'खेत्ते 'ति नारकादिक्षेत्रे वर्त्तमानानामेजना क्षेत्रजना, 'काले 'ति नारकादीनां काले वर्त्तमानानां एजना कॉलेजना, 'भावेत्ति औदयिकादिभावे वर्त्तमानानां नारकादीनां तद्गतद्रव्यपुद्गलानामेजना भावैजना 'वहिंस'त्ति
JOLJOLJCCCXCJCC(CP)EJOLYOCLO
१७ श९
२-३ उ.