SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती १७ श २ उद्देश: रति अनिशिक्षा देहिना HomonHONIEOmammi Mammimadirandihinduindi mom mom indi चासनकरणस्य शक्यत्वात् । अथान्ययूथिकमतमाह-'जस्स णं एगे पाणाएवि दंडे'त्ति (सू. ५९६) जस्स'त्ति येन देहिना एकप्राणिनि-एकत्रापि जीचे सापराधादौ पृथ्वीकायिकादौ वा, किं पुनर्बहुषु ?, दण्डो-वधः, 'अणिक्वित्ते'त्ति अनिक्षिप्तः-अनु|ज्झितोऽप्रत्याख्यातः स्यात् स एकान्तबाल एव, न बालपण्डिताः, एकान्तबालत्वव्यपदेशनिबन्धनस्य सर्वप्राणिदण्डात्यागस्य भा. वादिति परमतं, स्वमतं तु एकप्राणिन्यपि येन दण्डपरिहारः कृतोऽसौ नैकान्तबालः, किं तर्हि ?, बालपण्डितो, विरत्यविरतिसद्भावेन | मिश्रत्वात् तस्य, अथ प्रामुक्तयोः संयतपण्डितयोः शब्दतोऽर्थतश्चैक्थेऽपि अस्ति कोऽपि विशेषः ?, उच्यते, संयतत्वं क्रियाद्यपेक्षं पण्डि तत्वं बोधविशेषापेक्षं चेति । 'अण्णउत्थिया णमित्यादि (सू . ५९७) प्राणातिपातादिपु वर्तमानस्य देहिनः 'अण्णे जीवेत्ति | जीवति-प्राणान् धारयति इति जीवः, शरीरं प्रकृतिरित्यर्थः, स चान्यो-व्यतिरिक्तः, अन्यो जीवस्य-देहस्य सम्बन्धी अधिष्ठायकत्वादात्मा-जीवात्मा, पुरुष इत्यर्थः, अन्यत्वं च तयोः पुद्गलापुद्गलस्वभावत्वात् , ततश्च शरीरस्य प्राणातिपातादिषु वर्तमानस्य दृश्यमानत्वात् शरीरमेव तत्कर्तृ, न पुनरात्मा इत्येके, अन्ये त्वाहुः-जीवतीति जीवो-नारकादिपर्यायः, जीवात्मा तु सर्वभेदानु| गामि जीवद्रव्यं, द्रव्यपर्याययोश्चान्यत्वं, तथाविधप्रतिभासभेदनिबन्धनत्वात् घटवत् पटात् , तथाहि-द्रव्यमनुगताकारां बुद्धिं | कुर्यात् पर्यायस्त्वननुगताकारामिति, अन्ये त्वाहुः-अन्यो जीवः, अन्यश्च जीवात्मा-जीवस्यैव स्वरूपमिति, प्राणातिपातादिविचित्रक्रियाभिधानं चेह सर्वावस्थायां जीवजीवात्मनो दख्यापनार्थमिति परमतं, स्वमतं तु-सच्चेव जीवे सच्चेव जीवाय'त्ति स एव जीवः-शरीरं स एव जीवात्मा, जीव इत्यर्थः, कथञ्चिदिति गम्यं, न ह्यनयोरत्यन्तं भेदः, अत्यन्तभेदे देहेन स्पृष्टस्यासंवेदनप्रसङ्गः, | देहकृतस्य च कर्मणो जन्मान्तरे वेदनाभावप्रसङ्गः, अन्यकृतस्यान्यसंवेदने च अकृताभ्यागमप्रसङ्गः, अत्यन्तमभेदे च परलोका
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy