SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती चरमान्तयोः पञ्चेन्द्रियेषु देवानाश्रित्य भङ्गत्रयं सम्भवति, ग्रैवेयकविमानेषु तु देवपश्चेन्द्रियगमागमाभावात् द्वीन्द्रियादिध्वेष पञ्चेन्द्रियेष्वपि मध्यमभङ्गरहितं शेषं भङ्गद्वयं तयोः स्यादिति ॥ चरमाधिकारादेव परमाणुस्वरूपमाह-'परमाणु' (सू. ५८५) इत्यादि, | इदं च गमनसामर्थ्य परमाणोस्तथास्वभावत्वादिति मन्तव्यमिति । 'वासं वासइत्ति (सू. ५८६) वर्षों-वर्षति मेघो नो वा, अचक्षुरालोके हि दृष्टिहस्तादिप्रसारणेन ज्ञायत इतिकृत्वा हस्तादिकं आकुश्चयेद्वा प्रसारयेद्वा आदित एवेति । 'जीवाणं आहारोवचिया पोग्गल'त्ति (मू. ५८६) जीवानां जीवानुगता इत्यर्थः, 'आहारोपचिताः' आहारतया चयं-पुष्टिं गता इत्यर्थः, बोंदिचिय'त्ति अव्यक्तावयवशरीररूपतया चिताः, 'कलेवर'त्ति व्यक्तावयववपुश्चिताः, एवमुच्छासचिताः पुद्गला इत्याद्यपि द्रष्टव्यं, अनेनेदमुक्तं-जीवानुगामिस्वभावाः स्युः, ततश्च यत्रैव क्षेत्रे जीवास्तत्रैव पुद्गलानां गतिः स्यात् , 'पोग्गलामेव'त्ति पुद्गलानेव 'पप्प'त्ति आश्रित्य जीवानां 'अजीवाण यति पुद्गलानां गतिधर्मः, 'आहिज्जइ'त्ति आख्यायते, इदमुक्तं स्यात्-यत्र क्षेत्रे पुद्गलास्तत्रैव जीवानां पुद्गलानां च गतिः स्यात् , एवं चालोके नैव सन्ति जीवाः पुद्गलाश्च, तत्र जीवपुद्गलानां गति स्ति, तदभावाचालोके देवो हस्ताद्याकुञ्चयितुं प्रसारयितुं च न प्रभुरिति ॥ १६ शतेऽष्टमः॥ 'जहेव चमरस्स'त्ति (सू. ५८८) यथा चमरस्य द्वितीयशताष्टमोद्देशकोक्तस्य सुधर्मसभास्वरूपं प्रोक्तं तथा बलेरपि वाच्यं, तच्च तत एवावसेयं, 'एवं पमाणं जहेव तिगिछिकूडस्त'त्ति यथा द्वितीयशताष्टमोदेशकोक्तचमरसत्कतिगिंछकूटाख्यगिरेः प्रमाणमुक्तं तथाऽस्यापि रुचकेन्द्रस्य वाच्यं, एतदपि ततो ज्ञेयम् ,'तं चेव पमाणं'ति यत् प्रमाणं चमरसत्कतिगिंछकूटाख्योत्पातगियुपरिवर्तिनः प्रासादावंसकस्य तदेव बलिसत्कस्यापि रुचकेन्द्राख्योत्पातगिर्युपरिवर्तिनस्तस्य, तदपि द्वितीयशतात् ज्ञेयं, 'सिंहा ॥२३१॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy