SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघवृत्ता देशविषये 'अहवा एगिदियदेसा अणिदियस्स य देसे' इत्येवंरूपः प्रथमभङ्गो दशमशते आग्नेयीप्रकरणे उक्तोऽपीह न वाच्यो, यतः १६ श० | केवलिसमुद्घाते कपाटाद्यवस्थायां लोकस्य प्राक् चरमान्ते प्रदेशवृद्धिहानिकृतलोकसद्भावेनानिन्द्रियस्य बहूनां देशानां सम्भवो, न ८ उद्देशः | त्वेकस्येति, तथा आग्नेय्यां दशविधेष्वरूपिद्रव्येषु धर्माधर्माकाशास्तिकायद्रव्याणां तस्यामभावात् सप्तविधा अरूपिण उक्ताः, लोकस्य | पूर्वचरमान्ते तु अद्धासमयस्याप्यभावात् षड्विधास्ते वाच्याः, तत्राद्धासमयाभावः, तस्य समयक्षेत्र एव सद्भावाद् , अत आह-'जे| |अरूवी अजीवा ते छब्बिहा, अद्धासमओ नत्थि'त्ति, 'उवरिल्ले चरिमंतेत्ति अनेन सिद्धोपलक्षित उपरितनचरमान्तो विवक्षितः, तत्रैकेन्द्रियदेशा अनिन्द्रियदेशाश्च सन्तीतिकृत्वाऽऽह-'जे जीवे त्यादि, इहायमेको द्विकयोगः, त्रिकयोगेषु द्वौ २ | कायौं, तेषु हि मध्यमभङ्गः, स चायम्-'अहवा एगिदियदेसा अणिंदियदेसा य बेंदियस्स य देसा नत्थि' एवंरूपो नास्ति, तत्र | द्वीन्द्रियस्योपरितनचरमान्ते मारणान्तिकसमुद्घातेन गतस्यापि देश एव तत्र सम्भवति, न पुनः प्रदेशवृद्धिहानिकृतलोकवशादने| कातरात्मकप्राक्चरमान्तवद्देशा, उपरितनचरमान्तस्यैकप्रतररूपतया लोकदन्तकाभावेन देशानेकत्वाहेतुत्वादिति, अत आह|'एवं मझिल्लविरहिओ'त्ति त्रिकभङ्गक इति प्रक्रमः उपरितनचरमान्तापेक्षया । अथ जीवप्रदेशप्ररूपणायां एवं 'आइल्लविर| हिओ'त्ति यदुक्तं तस्यायमर्थः-इह प्रागुक्ते भङ्गत्रये प्रदेशापेक्षया 'अहवा एगिदियप्पदेसा य अणिदियप्पदेसा य बेंदियस्स यप्प| एसे' इत्ययं प्रथमभङ्गको न वाच्यः, द्वीन्द्रियस्य च प्रदेश इत्यस्यासम्भवात् , तदसम्भवश्व लोकव्यापकावस्थाऽनिन्द्रियवर्जजीवानां | यत्रैकः प्रदेशस्तत्रासङ्ख्यातानामेव तेषां भावात् , 'अजीवा जहा दसमसए तमाए'त्ति तमाख्यां दिशमाश्रित्य सूत्रमधीतं, |तथेहोपरितनचरमान्तमाश्रित्य वाच्यं, तच्चेदम्-'जे अजीवा ते दुविहा पं०, तं०-रूवि० अरूविअजीवा य, जे रूविअजीवा ते
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy