SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती १६ श० ७-८ उ. सणय'त्ति पश्यतो भावः पश्यत्ता-बोधपरिणामविशेषः, ननु पश्यत्तोपयोगयोः तुल्ये साकारानाकारभेदत्वे को विशेषः १, उच्यते, यत्र त्रैकालिकावबोधोऽस्ति तत्र पश्यत्ता, यत्र च वर्तमानकालत्रैकालिकश्च तत्रोपयोग इत्ययं विशेषः, अत एव मतिज्ञानं मत्यज्ञानं च साकारपश्यत्तया नोक्तं, तस्योत्पन्नाविनष्टार्थग्राहकत्वेन साम्प्रतकालविषयत्वात् , अथ कस्सादनाकारपश्यत्तायां चक्षुर्दर्शनमधीतं न शेषेन्द्रियदर्शनं ?, उच्यते, पश्यत्ता प्रकृष्टमीक्षणमुच्यते 'दृशिर प्रेक्षणे' इति वचनात् , प्रेक्षणं च चक्षुर्दर्शनस्यैवास्ति, न शेषाणां, चक्षुरिन्द्रियोपयोगस्य शेषेन्द्रियोपयोगापेक्षयाऽल्पकालत्वाद्, यत्र चोपयोगोऽल्पकालः तत्रेक्षणस्य प्रकर्षो झटित्यर्थपरि|च्छेदात् , तदेवं चक्षुर्दर्शनस्यैव पश्यत्ता नेतरस्येति, अयं चार्थः प्रज्ञापनातो विशेषेणावगन्तव्य इति ॥१६ शते सप्तमः॥ 'चरमंते'त्ति (सू. ५८४) चरमरूपोऽन्तश्वरमान्तस्तत्र, असङ्ख्यातप्रदेशावगाहित्वाजीवस्यासम्भव इत्यत आह-'नो जीवत्ति | जीवदेशादीनां त्वेकप्रदेशोऽप्यवगाहस्सम्भवति अत उक्तम्-'जीवदेसाऽवी'त्यादि 'अजीवावि'त्ति पुद्गलस्कन्धाः 'जीवदेसावित्ति धर्मास्तिकायादिदेशाः, स्कन्धदेशाश्च तत्र सम्भवन्ति, एवमजीवप्रदेशा अपि । अथ जीवदेशादिषु विशेषमाह-'जे जीवदेसा' ये जीवदेशास्ते पृथिव्यायेकेन्द्रियजीवानां देशाः, तेषां लोकान्तेऽवश्यं भावादित्यको विकल्पः, 'अहव'त्ति प्रकारान्तरे एकेन्द्रियाणां बहुत्वादहवस्तत्र देशाः स्युः, द्वीन्द्रियस्य च कादाचित्कत्वात् कदाचिद्देशः स्यादित्येको द्विकयोगविकल्पः, यद्यपि हि लोकान्ते द्वीन्द्रियो नास्ति तथापि यो द्वीन्द्रिय एकेन्द्रियेपूपिन्सुर्मारणान्तिकसमुद्घातं गतस्तमाश्रित्यायं विकल्पः, एवं जहे'त्यादि, | यथा दशमशते आग्नेय्यीं दिशमाश्रित्योक्तं तथेह पूर्वचरमान्तमाश्रित्य वाच्यं, तदिदं-'अहवा एगिदियस्स बेंदियस्स य देसाबेंदियाण | य देसा अहवा एगिदियदेसा तेंदियस्स य देसे' इत्यादि, अत्र यो विशेषस्तमाह-'णवरं देसेसु अणिंदियाण'मित्यादि अनिन्द्रियसत्के ॥२२९॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy