________________
श्रीभग०
लघुवृत्ती
३-४उ.
வாடிய யோயா போ ம ம
कासत्कानि 'संबंति'त्ति निसरन्ति इत्यर्थः, 'तं च'त्ति तं च मुनिं कृतकार्योत्सर्ग लम्बमानार्शसं विस्तृतरोगं 'विजे'त्ति वैद्यः १६ श० 'अदक्खु'त्ति अद्राक्षीत् , ततश्चार्शसां छेदार्थ 'ईसिं पाडेइ'त्ति तं मनाग् अनगारं भूम्यां पातयति, नापातितस्यार्शश्छेदः कर्तुं | शक्यते, 'तस्सत्ति वैद्यस्य क्रियाव्यापाररूपा सा शुभा धर्मबुद्ध्या छिंदानस्य, लोभादिना त्वशुभा क्रियते-भवति, 'जस्स छिजइ'त्ति यस्य मुनेरशासि छिद्यन्ते नो तस्य क्रिया स्यात् , निर्व्यापारत्वात् , किं सर्वथा क्रियाया अभावः?, नैवमत आह-'नण्णत्थे ति न इति योऽयं निषेधः सोऽन्यत्रैकस्मात् धर्मान्तरायात् , धर्मान्तरायरूपा क्रिया स्यात् तस्य मुनेः, धर्मान्तरायश्च शुभध्यानविच्छदादर्श छेदानुमोदनाद्वा ।। १६ शते तृतीयः॥ - 'अण्णगिलायए समणे'त्ति (सू . ५७३) अन्नं विना ग्लायति-ग्लानः स्यात् इत्यन्नग्लायकः प्रत्यग्रक्रूरादिनिष्पत्तिं यावत् बुभु-IN क्षातुरतया प्रतीक्षितुमशक्नुवन् यः पर्युषितकूरादि प्रातरेव भुते कूरगडुप्राय इत्यर्थः, चूर्णिकारेण तु निःस्पृहत्वात् सीयकूरभोई अंतपंताहारेत्ति व्याख्यातं, अथ कथमिदं प्रत्याय्यं, यदुत नारको महादुःखी महताऽपि कालेन तावत् कर्म न क्षपयति यावत् साधुरल्पकष्टोऽल्पकालेन इति ?, उच्यते, (दृष्टान्तात् ) स चायं दृष्टान्तः, सिढिलतयावलि'त्ति शिथिलत्वचावलीतरङ्गैश्च सम्पिनळू-व्याप्तं गात्रं देहो यस्य सः 'पविरल'त्ति प्रविरलाः केचित् केचित् परिशटिता दन्तास्तेषां श्रेणिर्यस्य सः, आतुरो-दुःस्थः 'झंझिए'त्ति बुभुक्षितः, ईदृग्नरः छेदनेऽसमर्थः स्यात् इत्येवं विशेषितः, 'कोसंबत्ति कोसंबो-वृक्षविशेषः तस्य गण्डिका-खण्डविशेषः तां जटिलां-जटावतीं वलितोद्वलितामिति वृद्धाः, 'गंठिल्लत्ति ग्रन्थिमतीं 'वाइद्धं ति व्यादिग्धां-विशिष्टद्रव्योपदिग्धां ॥२२७॥ वक्रामिति वृद्धाः, 'अपत्तियंति अपात्रिका-अविद्यमानाधारां एवंभूता च गण्डिका दुश्छेद्या स्यात् मुण्डेन-कुण्ठेन परशुना, शेष
வா
வாரம்