SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती HOMutaliwnimismami var सप्त च मोहक्षये उपशमे वा, एवं मनुष्योऽपि, नारकादिस्तु वैमानिकान्तोऽष्टावेव इत्येवं वेदनं, 'बंधोऽवि तहेव'त्ति एकस्याः कर्मप्रकृतेर्वेद-वेदनेऽन्यासां कियतीनां बन्धः स्यात् इति बन्धः प्रतिपाद्यते यत्रासौ वेदावन्ध उच्यते, सोऽपि तथैव प्रज्ञापनायामिव, स च प्रज्ञापनाषड्विंशतितमपदरूपः, स चैवम्-'कइ णं भंते ! कम्मपगडीओ पं० ?, गो! अढ णाणावरणि जमित्यादि, | 'एवं नेरइयाणं जाव वेमाणियाणं, जीवे णं भंते ! नाणावरणिजं वेदेमाणे कइ कम्मपगडीओ बंधइ?, गो ! सत्तविहबंधए वा एवं | अवविह० छव्विहबंधए वा, एगविहबंधए वा,' तत्राष्टविधबन्धकः प्रतीतः, सप्तविधबन्धकस्त्वायुर्वन्धकालादन्यत्र, पविधबन्धक आयुर्मोहवर्जानां सूक्ष्मसम्परायः, एकविधबन्धको वेदनीयापेक्षयोपशान्तमोहादिः, 'बन्धावेदोऽवि तहेव'त्ति एकस्याः कर्मनकृतेर्बन्धे सति अन्यासां कियतीनां वेदो भवति एवमर्थो बन्धावेद उद्देशक उच्यते, सोऽपि तथैव, प्रज्ञापनायामिवेत्यर्थः, स च | प्रज्ञापनायां पञ्चविंशतितमपदरूपः, विशेषस्त्वयम्-'जीवाणं भंते ! नाणावरणिजं कम्मं बंधेमाणे कइ कम्मपगडीओ वेएइ ?, गो! नियमा अट्ठ कम्मपगडीओ वेएई' इत्यादि । 'बंधाबंधोति एकस्या बन्धे अन्यासां कियतीनां बन्ध इति यत्रोच्यते, स च प्रज्ञा|पनाचतुर्विंशतितमपदरूपः, स चैवम्-'जीवे णं भंते! नाणावरणिज्जं बंधेमाणे कइ कम्मपगडीओ बंधइ ?, गो० ! सत्त अट्ठ छ एगविहबंधए वे'त्यादि, इह गाथा दृश्यते-"वेयावेओ पढमो वेयाबंधो य बीयओ होइ । बंधावेओ तइओ चउत्थओबंधबंधोति ॥२॥" 'पुरस्थिमेणं'ति (सू. ५७२) पूर्वाह्ने इत्यर्थः, 'अवटुंति अपगताध अर्द्धदिवसं यावत् न कल्पते हस्ताद्याकुञ्चयितुं, कायोत्सर्गव्यवस्थितत्वात् , पचत्थिमेणं'ति पश्चिमभागे 'अवटुं'ति अपार्धदिनाई यावत् कल्पते हस्ताद्याकुश्चयितुं, कार्योत्सर्गाभाव त , एतच्चूर्ण्यनुसारितया व्याख्यातं, 'तस्स यत्ति तस्य पुनस्साधोरेवं कायोत्सर्गाभिग्रहवतः 'अंसियाउति अशांसि तानि च नासि Indian Nandinin-intedin mein mein manmath immun andu
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy