________________
श्रीभग० लघुवृत्तौ
दितुं शीलं - स्वभावो यस्य सम्यग्वादी, प्रायोऽसौ सम्यगेव वक्ति इति, 'सावज्जं 'ति सावद्यां सपापामित्यर्थः, 'जाहे णं'ति यदा 'सुहमकार्य'ति सूक्ष्मकार्य - हस्तादिकं वस्तु इति वृद्धाः अन्ये त्वाहुः सूक्ष्मकायं वस्त्रं 'अणिज्जूहिय'त्ति अपोह्य-अदवा, हस्ता द्यावृतमुखस्य हि भाषमाणस्य जीवरक्षणतोऽनवद्या भाषा स्याद्, अन्या तु सावद्येति । 'मोउद्देसए'ति तृतीयशतप्रथमोदेशके । | अथ कर्म्मभेदमाह - 'चेयकडा कम्म'त्ति (सू. ५७० ) चेतः - चैतन्यं तेन कृतानि चद्वानि चेतःकृतानि कम्मणि 'कज्जंति' ति भवन्ति 'जीवाणं'ति जीवानामेव, नाजीवानां, 'आहारोवचिय'त्ति आहारोपचिता ये पुद्गलाः 'बोंदिचिय'त्ति बोन्दि:- अव्यक्तावयवशरीरं तेन चिताः 'तहा तह'ति तेन २ प्रकारेणाहारयतीत्यर्थः, ते पुद्गलाः परिणमन्ति, एवं कर्मपुद्गला अपि जीवानां परिणमन्ति इतिकृत्वा चैतन्यकृतानि कर्माणि, अतो निगम्यते 'नत्थि अचेय'त्ति नास्ति अचैतन्यकृतानि कर्माणि हे श्रमणायुष्मन् !, तथा 'दुट्ठाणेसु'ति शीतातपदंशमशकादियुक्तेषु कायोत्सर्गाद्यासनाश्रयेषु 'दुस्सेजासु' दुःखकद्वसतिषु 'दु निसीहियासु' ति दुःखहेतुस्वाध्यायभूमिषु तेन २ प्रकारेण बहुविधासातोत्पादकतया 'ते पुग्गल'ति ते कार्मणपुद्गलाः परिणमन्ति 'नत्थि अचेयकडा कम्म'त्ति नास्ति अचैतन्यकृतानि कर्माणि, तथा 'आयंके' त्ति आतङ्को - ज्वरादिः 'से' तस्य बधाय स्यात् 'संकप्पे ' त्ति सङ्कल्पो - भयादिविकल्पः मरणान्तोऽपि - विनाशो दण्डादिघातः 'तहा तह'त्ति तथा तथा वधजनकेनातङ्काद्यसातजनकास्ते पुद्गलाः परिणमन्ति-वर्त्तन्ते अतश्वेतः कृतानि कर्माणि न सन्त्यचेतः कृतानि । १६ शते द्वितीयः ॥
'वेयावे उद्देसउ 'त्ति (सू. ५७१) वेदे - वेदने कर्म्मप्रकृतेरेकस्याः वेदनमन्यासां प्रकृतीनां यत्रोद्देशकेऽभिधीयते स वेदावेदः उद्देशकः प्रज्ञापनासप्तविंशतितमे पदे, दीर्घता चेह संज्ञात्वात् स चैवमर्थतः - हे गौतम! अष्ट कर्म्मप्रकृतीर्वेदयति, सप्त वा,
१६ श०
२-३उ.
॥२२६॥