________________
श्रीभग लघुवृत्ती|
१६ श० १ उद्देश:
कव्यतार्थः १२ दिनकः ९ 'ओहिति माप: ६ ‘उवओग
अथ षोडशशतमारभ्यते यथा 'अहगरिणित्ति (*७६) अधिक्रियते-प्रियते कुटनार्थ लोहादि यस्यां सा अधिकरणी तत्प्रभृतिपदार्थवाच्यः प्रथमः, 'जर'त्ति जराद्यर्थवाच्यो द्वितीयः 'कम्मे'त्ति कांद्यधिकारवाच्यः ३ 'जावइय'मित्यादिशब्देनोपलक्षितश्चतुर्थः 'गंगदत्त'त्ति गङ्गदत्तदेववक्तव्यतार्थः ५ 'सुमिणि'त्ति स्वमरूपः ६ 'उवओगति उपयोगार्थः ७ 'लोग'त्ति लोकस्वरूपार्थः ८ 'बलि'त्ति बलिसत्कपदार्थाभिधायकः ९ 'ओहित्ति अवधिज्ञानार्थः १० 'दीवेति द्वीपकुमारवक्तव्यतार्थः ११ 'उदहि'त्ति उदधिकुमारवक्तव्यतार्थः १२ 'दिस'त्ति दिकुमारविषयार्थः १३ 'थणिएत्ति स्तनितकुमारवक्तव्यतार्थः १४ इत्युदेशकगाथार्थः। 'अत्थि'त्ति (सू . ५६२) अस्त्ययं पक्षः 'अहिकरणिसित्ति अधिकरण्यां 'वाउयाए'त्ति वायुकायः 'वक्कमई'त्ति व्युत्क्रामति, अयोधनाभिधातेनोपपद्यते?, अयं चाक्रान्तसम्भवत्वेनादावचेतनतयोत्पन्नोऽपि पश्चात् सचेतनीस्यात् इति सम्भाव्यते । उत्पन्नस्सन् नियत इति प्रश्नयन्नाह-'सेसंते'त्यादि 'पुढे 'त्ति स्पृष्टः खकायशस्त्रादिना। सशरीरश्च कलेवरान्निष्कामति कार्मणाद्यपेक्षया, औदारिकाद्यपेक्षया त्वशरीरीति ॥ अथाग्निसूत्रमाह-'इंगालकारियाए'त्ति (सू. ५६३) अङ्गारान् करोतीति अङ्गारकारिका-अग्निशकटिका तस्यां, न केवलं तस्यामग्निकायः स्यात् , 'अण्णोऽवित्यत्ति अन्योऽप्यत्र वायुकायो व्युत्क्रामति, यत्रानिस्तत्र वायुरितिकृत्वा, कस्मादेवमित्याह-'न विणे'त्यादि ॥ अग्यधिकारादेव अग्नितप्तलोहमाश्रित्याह-'अयंति (सू .५६४) लोहं 'अयकोटुंसित्ति लोहप्रतापनार्थे कुशूले 'उविहमाणे वत्ति उत्क्षिपन् वा 'पब्विह'त्ति प्रक्षिपन् वा 'इंगालकढिणित्ति ईषद्वकाग्रा लोहसंडासिका 'भत्थ'त्ति भत्रा-ध्मातखल्ला, इह चायःप्रभृतिपदार्थनिर्वर्तकजीवानां पश्चक्रियत्वमविरतिभावेन ज्ञेयमिति, 'चम्मट्टे'त्ति लोहमयः प्रतलायतो लोहादिकुदृनहेतुर्लाहकाराद्युपकरणविशेषः, 'मुट्ठिए'त्ति लघुतरो घनः 'अहिगरणि