________________
श्रीभग लघुवृत्ती
खोडि'त्ति यत्र काष्ठे अहिगरणी स्थाप्यते 'उदगदोणि'त्ति जलभाजनं यत्र तप्तं लोहं शीतलीकरणाय क्षिप्यते 'अहिगरणसा--
१६०
१ उद्देश: ल'ति लोहपरिकर्मगृहं । 'अहिगरणीवित्ति (सू . ५६५) अधिकरणं-दुर्गतिहेतुर्वस्तु तच्च विवक्षया शरीरमिन्द्रियाणि च, तथा | बाह्यो हलगंत्र्यादिः, तदस्यास्तीति अधिकरणी जीवः, अहिगरणंपित्ति शरीराद्यधिकरणेभ्यः कथश्चिदैक्थात् अधिकरणं जीवः, एत|वयं जीवस्याविरतिमाश्रित्योच्यते, तेन यो विरतिमान् सशरीरादिभावेऽपि नाधिकरणी नाप्यधिकरणं, अविरतियुक्तस्य शरीरादेर| धिकरणत्वात् , एतच्चतुर्विंशतिदण्डकेषु वाच्यं, 'साहिगरणित्ति (सू. ५६६) सहाधिकरणेन-शरीरादिना वर्तते यः सः साधि| करणी, शस्त्रायधिकरणापेक्षया तु तदविरतिरूपस्य सहवर्तित्वात् जीवस्साधिकरणीत्युच्यते, अत एव वक्ति-'अविरई पडुच्च'त्ति अत एव संयतानां वपुस्सद्भावेऽप्यविरत्यभावान्न साधिकरणत्वं, 'निरहिगरणित्ति निरधिकरणी, अधिकरणदूरवर्तीत्यर्थः, स च न स्यात् , अविरतेरधिकरणभूताया अदूरवर्तित्वादिति, अथवा सहाधिकरणिभिः-पुत्रमित्रादिभिर्वर्तत इति साधिकरणी, कस्यापि जीवस्य पुत्राद्यभावे तद्विषयविरतेरभावात् साधिकरणत्वं ज्ञेयं, अतो नो निरधिकरणीति, 'आयाहिगरणित्ति अधिकरणी-कृष्यादिमान् आत्मनाधिकरणी आत्माधिकरणी, 'पराहिगरणित्ति परेषामधिकरणप्रवर्त्तनेनाधिकरणी पराधिकरणी, एवं तदुभयाधिकरणी च, 'आयप्पओगणिव्यतिपत्ति आत्मनः प्रयोगेण-मनःप्रभृतिव्यापारेण निर्वर्तितं-कृतं यत्तत्तथा, एवमन्यदपि द्वयं । 'से केण'मित्यादि, अविरत्यपेक्षया त्रिविधमप्यस्तीति भावनीयं, 'एवं चेव'त्ति अनेन जीवमूत्रालापः पृथ्वीकायसूत्रे समस्तो वाच्य | इति दर्शितं, एवं वेउव्वी त्यादि व्यक्तं, नवरं 'जस्स अस्थिति यस्य जीवपदस्य (अस्ति तत् तस्य तद्) वाच्यमिति, तत्र नार
॥२२५॥ कदेवानां वायोः पश्चेन्द्रियतिर्यग्मनुष्याणां च वैक्रियमस्तीति ज्ञेयं, 'पमायं पडुच्च'त्ति इहाहारकशरीरं साधूनामेव स्यात् तत्रावि