SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्रम् चरमजिनैरचेलत्वं शुभ्रवस्त्रत्वं चोक्तमिति शङ्का, अत्र समाधिः - ऋजुजडवक्रजडऋजुप्राज्ञशिष्यानाश्रित्य भगवदुपदेशः, प्रवचनं-आगमस्तत्र शङ्का-मध्यमजिनैश्चतुर्यामो धर्मः प्रथमान्तिमजिनैश्च पंचयामः प्रोक्त इति, अत्र समाधिः सुगमः, 'पावयणं' ति प्रव चनमधीते वेत्ति वेति प्रावचनिकः, तत्रैक एवं कुर्यादन्यस्त्वेवमिति किमत्र तत्वमिति शङ्का, समाधिश्चात्र - मोहनी यक्षयोपशमविशेषेणोत्सर्गापवाद व्यवहारनिश्चयादिविविधत्वेन प्रावचनिकानां विचित्रा प्रवृत्तिरिति, 'कप्पं'ति, कल्पो द्विधा - जिनकल्पः स्थविरकल्पश्च तत्र प्रथमो नाग्यादिमहाकष्टरूपः, इतरो वस्त्रपात्रादिपरिभोगरूपः, ततो द्वावेतौ कथं कर्म्मक्षयाय १, अत्रोत्तरम् - अवस्थाभेदेन जिनोक्तत्वात् द्वावपि कर्मक्षयकरौ, 'मग्ग'ति मार्ग:- पूर्व पुरुषसामाचारीरूपः, स च केषांचिदनेकविधकायोत्सर्गकरणाद्यावश्यक सामाचारीरूपः, तदन्येषां तु न तथेति शङ्का, अत्रोत्तरम् - गीतार्थाशठग्ररूपिताऽसौ सर्वाऽपि न विरुद्धा, आचरितलक्षणोपेतत्वात्, उक्तं च-- "असढाइण्णत्तणवञ्ज, गीयत्थअवारियंति मज्झत्था | आयरणाऽवि हु आणत्ति वयणओ सुबहु मन्नंति ॥ | १ ||" इति, 'मत' ति आचार्याणामागमेऽसमानोऽभिप्रायः, कथं ?, सिद्धसेनः केवलिनो युगपज्ज्ञानं दर्शनं च, जिनभद्रगणिस्तु भिन्नसमये तौ द्वावपि केवलिनो मन्यते, जीवस्वरूपत्वात्, यथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैव मतिश्रुतोपयोगौ न च एकतरोपयोग इतरक्षयोपशमाभाव इति वाच्यं, तत्क्षयोपशम उत्कृष्टतः षट्षष्टिसागराणि, कथं ?, "दोवारे विजयाइसु गयस्स" त्ति वचनात् इति शङ्का, इहैवं समाधि :- "जुगवं दो नत्थि उवओगा' तत्त्वं जिनप्रणीतमेव, आह च- 'अणुवक यपराणुग्गह०'त्ति, 'भंगं'ति भङ्गाध्यादिसंयोगभङ्गकाः, तत्र द्रव्यतो नामैका हिंसा न भावत इत्यादि चतुर्भङ्गी उक्ता, तत्र प्रथमोऽत्र भङ्गो न युज्यते, यतः किल | द्रव्यतो हिंसा ईर्यासमत्या गच्छतः साधोः पिपीलिकादिव्यापादनं, नेयं हिंसा, तलक्षणायोगात्, तथोक्तं च- "जो उ पमत्तो पुरिसो १ शतके ३ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy