SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्रम् न्द्रियनिमित्तसामान्यार्थावबोधो दर्शनं, तदा किमेकश्चक्षुर्दर्शनं, अन्यस्त्वचक्षुर्दर्शनम्, अथेन्द्रियानिन्द्रियभेदाद्भेदः तदा चक्षुष इव श्रोत्रादीनामपि दर्शनभावात् षडिन्द्रियनोइन्द्रियजानि दर्शनानि स्युः, न द्वे एवेति, अत्र समाधिः- सामान्य विशेषात्मकत्वात् वस्तुनः क्वचिद्विशेषतः क्वचिच्च सामान्यतः, तत्र चक्षुर्दर्शनमिति विशेषतः, अचक्षुदर्शनमिति सामान्यतः यच्च प्रकारान्तरतोऽपि निर्देशस्य सम्भवे चक्षुर्दर्शनमचक्षुर्दर्शनं चेत्युक्तं तदिन्द्रियाणामप्राप्तकारित्वप्राप्तकारित्वविभागात्, मनसस्त्वप्राप्तकारित्वेऽपि प्राप्तकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वात् तद्दर्शनस्याचक्षुर्दर्शनस्याचक्षुर्दर्शनशब्देन ग्रहणं, अथवा दर्शनं सम्यक्त्वं तत्र शङ्का- 'मिच्छत्तं जमुदिण्णं तं खीणं अणुदियं च उवसंत' मिति क्षायोपशमिकलक्षणं, औपशमिकलक्षणमप्येवं, यदाह - "खीणंमि उहणंमी अणुदिअंते य सेसमिच्छत्ते । अंतोमुहुत्तमित्तं उवसमसम्मं लहइ जीवो || १ ||" ततोऽनयोः को विशेष उक्तः ?, अत्र समाधिश्व क्षयोपशमे हि उदीर्णस्य क्षयः अनुदीर्णस्य च विपाकानुभवापेक्षया उपशमः, प्रदेशानुभवतस्तूदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्तं च- "वेएइ संतकम्मं खओवसमिएस नाणुभावं से । उवसंतकसाओ उण वेदेइ न संतकम्मति ॥ १॥" 'चरितं 'ति तत्र चारित्रं द्विधा - सामायिकं छेदोपस्थापनीयं च तत्र प्रथमं सर्वसावद्यविरतिरूपं ततूदयोs ( ० पत्रतादिरूपम) न्यदपि तल्लक्षणमेव, तत्कोऽनयोभेदः इति शङ्का, अत्र समाधिः - ऋजुवक्रजडानां प्रथमचरमजिनसाधूनामाश्वासनाय छेदोपस्थापनीयमुक्तं, व्रतारोपणे हि मनाक् सामायिकाशुद्धावपि व्रताखण्डनाच्चारित्रिणो वयं, चारित्रस्य व्रतरूपत्वादिति बुद्धिः स्यात्, सामायिकमात्रे तु तदशुद्धौ भग्नं नश्चारित्रं, चारित्रस्य सामायिकमात्रत्वादित्यनाश्वासस्तेषां स्यादिति, आह- "रिउवंकजडा पुरिमेयराण सामाइए वयारुहणं । मणयमसुद्वेऽवि जओ सामइए हुंति हु वयाई ॥ १ ॥” लिङ्गं साधुवेषः, तत्र मध्यमजिनैर्यथालब्धवस्त्ररूपं लिङ्गं साधूनामुक्तं, तदा किमिति प्रथम १ शतके ३ उद्देशः ॥२१॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy