SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ १५०० श्रीमगदितः, आह च-"अस्सणी खलु पढम, दोचं व सरीसिवा तइय पक्खी । सीहा जंति चउत्थि उरगा पुण पंचमं पुढवि ।।' 'खहलघुवृत्ती चरविहाणाई' विधानानि-भेदाः, 'चम्मपक्खीणं'ति वल्गुलीप्रभृतीनां 'लोमपक्खीणं' हंसादीनां 'समुग्गपक्खीण'ति समुद्गकाकारपक्षवतां नरक्षेत्रबहिर्वतिनां विययपक्खीणंति विस्तारितपक्षवतां समयक्षेत्रबहिर्वत्तिनामेव 'अणेगसयसहस्सखुत्तों' इत्यादि यदुक्तं तत्सान्तरमवसेयं, निरन्तरं पञ्चेन्द्रियत्वलाभस्योत्कर्षतोऽप्यष्टभवप्रमाणस्यैव भावात् , यदाह-"पंचिंदियतिरियनरा सत्तट्ठभवा भवग्गहणे'त्ति,'गंडीपयाणं ति हस्त्यादीनां 'सणफयाणं'ति सनखपदानां सिंहादिनाखराणां 'उवचियाः ण'मिह यावत्करणादिदं दृश्यम्-'रोहियाणं कुंथूपिवीलियाण'मित्यादि, 'रुक्खाणं'ति वृक्षानामेकास्थिबहुबीजभेदात् द्विविधानां, तत्रैकास्थिका निम्बाम्रादयः बहुवीजा अस्थिकतिन्दुकादयः, 'गुच्छाणं'ति बृन्ताकिप्रभृतीनां 'कुहुणाणं'ति कुहुणानां आयकायप्रभृतिभूमिस्फोटानां,'ओसणं च'त्ति बाहुल्येन, 'पाईणवायाणं'त्ति पूर्ववातानां यावत्करणाचतुर्दिग्वातानां 'सुद्धवायाणं'ति मन्दस्तिमितवायूनाम् , 'इंगालाणं'ति यावत्करणात् 'मुम्मुराणं अञ्चीण'मित्यादि, फुफुकादौ मसृणाग्निरूपाणां अर्चिपां-वह्निप्रतिबद्धज्वालानामिति, 'ओसाणं'ति रात्रिजलानां 'खाओदयाणं ति खातिकाादकानां 'सकराति घरद्यानां, यावत्करणात् उपलानां 'बाहिं खरियत्ताए'त्ति नगरबहिर्वतिप्रान्तजनवेश्यात्वेन 'अंतोखरियत्ताएत्ति पुरमध्यवर्तिशिष्टजनवेश्यात्वेन ॥ 'पडिरूविएणं सुंकेणं'ति (सू. ५६१) प्रतिरूपिकेन-उचितेन शुल्केन-दानेन, "भंडकरंडग'त्ति आभरणभाजनतुल्या आदेयेत्यर्थः, 'तेल्लकेला इव'त्ति तैलकेला-तैलभाजनं सौराष्ट्रप्रसिद्धं, सा च सुष्टु सङ्गोप्य रक्षणीया स्यात् , अन्यथा लुठति, ततश्च तैलहानिः स्यात् , 'चेलपेडा इव सुसंपत्ति वस्त्रपेटेव सुष्टु संपरिभृता-निरुपद्रवस्थाने स्थापिता, 'दाहिणिल्लेसुत्ति HILAaniना mathurairiwnism
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy