________________
श्रीभग लवुवृत्तौ|
प्रकृतिः।। उच्चावयाहिं ति (सू. ५.२) असमञ्जसामिः, 'आओसणाहिं'ति मृतोऽसि त्वमित्यादिभिर्वचनैराक्रोशति-शपति | 'उद्धंसणाहिति दुष्कुलीनेतिवचोभिः 'उद्धंसेइ'त्ति कुलाद्यभिमानादधः पातयति 'निम्भंछणाहिति न त्वया मे कार्यमित्यादिमिनिर्भर्त्सनामिनिर्भर्त्सयेत् नितरां दुष्टमभिधत्ते 'निच्छोडणाहिति त्यजास्मान् इति 'निच्छोडह'त्ति प्राप्तमर्थं त्याजयतीति, 'नटेसित्ति नष्टः वाचारत्यागात् असि-भवसि त्वं कदाचित् , विनष्टो मृतोऽसि, भ्रष्टोऽसि संपदो व्यपेतोऽसि त्वं, धर्मात्रयस्य | यौगपद्येन योगानष्टविनष्टभ्रष्टोऽसीति, 'नाहि तेत्ति नैव ते ॥ 'पादीणजाणवए'त्ति (सू . ५५३) प्राचीनजानपदः प्राच्य इत्यर्थः, 'पवाविए'त्ति प्रवाजितः-शिष्यत्वेनाङ्गीकृतः 'अब्भुवगमो पव्वजति वचनात् , मुण्डितश्च शिष्यत्वेनानुगमनात् , 'सेहाविय'त्ति बतित्वेन सेधितः, साध्वाचारसेवायां तस्य भगवतो हेतुभूतत्वात , 'सिक्खाविय'ति शिक्षितस्तेजोलेश्याधुपदेशदानतः, 'कोसलजाणवर'त्ति अयोध्यादेशोत्पन्नः 'वाउक्कलियाइव'त्ति वातोत्कलिका, स्थित्वा २ यो वातो वाति सा वातोत्कलिका 'वायमंडलि'त्ति मण्डलिकाभियों वाति, 'सेलंसी'वेत्यादौ तृतीयार्थे सप्तमी 'आवरिजमाण'त्ति स्खल्यमाना 'निवरिजत्ति | निवय॑माना 'नो कमइ'त्ति न क्रमति-न प्रभवति 'नो पक्कमंति' नैव प्रकर्षण क्रमते 'अंचियंचित्ति अश्चिते-सकृद्गते अश्चितेन वा-सकृद्गतेन देशेनांचिः-पुनर्गमनमश्चितांचिः, अथवा अञ्चया-गमनेन सह अंचिः-आगमनमञ्चयांचि, निर्गमागम इत्यर्थः, तां कुर्यात्, 'अण्णाइडे'त्ति अन्वाविष्टा-अभिव्याप्तः 'सुहत्थिति सुहस्तीव सुहस्ती 'अहप्पहाणे जणे'त्ति यथाप्रधानो जनो, | यो यः प्रधानजन इत्यर्थः, 'अगणिज्झामिए'त्ति अग्निना ध्मातो-दग्धो ध्यामितो वा-ईपदग्धः, 'झूसिए'त्ति सेवितः क्षपितो वा 'परिणामिए'त्ति अग्निना परिणामितः, प्राक्वरूपत्याजनेन आत्मभावं नीतः, हततेजा धूल्यादिना, गततेजाः स्वतः, एवं नष्ट