________________
श्रीभग० लघुवृत्तौ
संज्ञिगर्भानन्तरं क्रमादवसेयाः, तथा पञ्चेत्यादाविदं सम्भाव्यते-पंच 'कम्मणि सहस्साई ति कर्म्मणि - कर्मविषये कर्मणामित्यर्थः, पञ्च शतसहस्राणि - लक्षाणि 'तिणि य कम्मंसे' त्ति तांश्च कर्मभेदान् 'निवइत्ता' क्षपयित्वा अतिवाद्य 'से जहे' त्यादिना महाकल्प प्रमाणमाह, 'जर्हि वा पज्जुवत्थिय'त्ति यत्र मृत्वा परि-सामस्त्येनोपरिस्थिता उपरता समाप्तेत्यर्थः, 'अद्ध'त्ति एष गङ्गाया मार्गः, 'एएणं गंगापमाणेणं' ति गङ्गायास्तन्मार्गस्यैक्याच्च गङ्गाप्रमाणेनेत्युक्तं 'एवामेव'त्ति उक्तेनैव क्रमेण 'सव्वावरेणं ति सह पूर्वेण गङ्गादिना यत् परं महागङ्गादि तत् सपूर्वापरं तेन भावप्रत्ययलोपदर्शनात् सपूर्वापरतयेत्यर्थः, 'तासिं दुविहे 'ति तासां गङ्गादीनां गङ्गादिगतवालुकाकणानामित्यर्थः, द्विविध उद्धरणीयद्वैविध्यात्, 'सुहुमबोंदि कलेवरे 'ति सूक्ष्मवोन्दीनि सूक्ष्माकाराणि कलेवराणि असख्यातखण्डीकृतवालुकाकणरूपाणि यत्रोद्धारे स तथा, 'बायरबों दि'त्ति बादरबन्दीनिबादराकाराणि कलेवराणि वालुकाकणरूपाणि यत्र स तथा 'कप्पे 'त्ति न व्याख्येयः, इतरस्तु व्याख्येयः, 'अवहाय'त्ति अपहायत्यक्त्वा 'से कोट्ठेत्तिस कोष्ठो गङ्गासमुदायात्मकः 'खीणे'त्ति क्षीणः, नीरजः स च तद्भूमिगतरजसामप्यभावः, निर्लेपः भूमिभिच्यादिसंश्लिष्टसिकताले पाभावात्, 'निट्ठिए'त्ति निष्ठितो निरवयवीकृत इति, 'से तं सरे'ति अथ तत् कालखण्डं सरः संज्ञं स्यात्, मानससर इत्यर्थः, 'सरप्पमाणे ति सर एवोक्तलक्षणं प्रमाणं वक्ष्यमाणमहाकल्पादेर्मानससरः प्रमाणं, 'महामाणसे' ति मानसोउत्तरं, अथ सप्त दिव्यादीनाह 'अनंताओ संजूहाओ' ति अनन्तजीव समुदायरूपान्निकाय विशेषात् 'चयं चइत्त' त्ति व्यवनं कृत्वा, अथवा चयं देहं 'चइत्ता' त्यक्त्वा 'उवरिल्ले'त्ति उपरितनमध्यमाधस्तनानां मानसानां सद्भावात् तदन्यव्यवच्छेदाय उपरितनेत्युक्तं, माणसे' त्ति गङ्गादिप्ररूपणतः प्रागुक्तस्वरूपे सरसि सरः प्रमाणायुष्कयुक्ते इत्यर्थः, 'संजू' त्ति निकाय विशेषे देवे 'उव
DOOFF BEFO
१५ श०
||२२०||