________________
श्रीभग
१५
लघुवृत्ती
लेन-उरगेण 'सारक्खामिति संरक्षामि-दाहभयात् सङ्गोपयामि, सुखस्थानप्रापणेन ॥ "पभुत्ति (सू. ५४८) प्रभुः-समर्थः गोशालको भमराशिं कर्तुमित्येकः प्रश्नः, प्रभुत्वं द्विधा-विषयमात्रापेक्षया तत्करणतश्चेति पुनः पृच्छति-'विसरणं'ति इत्यनेन प्रथमः प्रश्नः पृष्टः, 'समत्थे ण'मित्यनेन द्वितीयः, "परितावणियंति परितापनिकां, क्रियां कुर्यादित्यर्थः, 'अणगाराणं' सामान्यसाधूनाम् , 'खंतिखमा' क्षान्त्या-क्रोधनिग्रहेण क्षमन्त इति क्षान्तिक्षमाः,'थेराणं'त्ति आचार्यादिश्रुतपर्यायस्थविराणां। 'पडिचोयणाए'त्ति (सू. ५४९ तन्मतप्रतिकूलचोदना-प्रोत्साहना प्रतिचोदना तया, 'पडिसारणाए'त्ति तन्मतप्रतिकूलतया विस्मृतार्थस्सारणा प्रतिस्सारणा तया, 'पडोयारेणं'ति प्रत्युपचारेण वा 'पडोयारेउ'त्ति प्रत्युपचारं करोतु, एवं प्रत्युपकारयतु वा, 'मिच्छ विप्पडिवण्णे'त्ति मिथ्यात्वं म्लेच्छथं अनार्यत्वं वा विशेषतः प्रतिपन्नः ।। 'सुट्टणं'ति (सू . ५५०) उपालम्भवचः 'आउसो'त्ति हे आयुष्मन् ! चिरजीवित ! काश्यपगोत्र ! 'इमं सत्तमं पउपरिहारं ति सप्तमं शरीरान्तरप्रवेशं करोमीत्यर्थः, | 'जेवि य आईति येऽपि च आइंति निपातः, 'चउरासीइ महाकप्पसहस्साई'इत्यादि, गोशालकसिद्धान्तार्थः स्थाप्यो, वृद्धैरव्याख्यातत्वात् , आह च चूर्णिकारः-'संदिद्धत्ताओ तस्सिद्धंतस्स न लक्खिाइ'त्ति, तथापि शब्दानुसारेण किश्चिदुच्यते-'चउरासीइ महाकप्पसयसहस्साइंति चतुरशीतिमहाकल्पाः, कल्पा:-कालविशेषाः, तेऽपि लोकप्रसिद्धा अपि स्युरतस्तद्व्यवच्छेदार्थ उक्तंमहाकल्पा वक्ष्यमाणस्वरूपाः तेषां यानि शतसहस्राणि-लक्षाणि तानि क्षपयित्वा, तथा 'सत्त दिव्वेत्ति सप्त दिव्यान्-देवभवान् 'सत्त संजूहे'त्ति सप्त संयूथानि-अनन्तकायजीवनिकायविशेषान् 'सत्त सण्णिगन्भे'त्ति सप्त संज्ञिगर्भान्-मनुष्यभववसतीः, एते च तन्मते सप्त मातरः स्युः, वक्ष्यति चैवमेवैतान अयमेवेति, 'सत्त पउपरिहारे'त्ति सप्त शरीरान्तरप्रवेशान् , एते च सप्त