SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ JÚGJOC JUGJOLLC JOCOGDOC लिलोदकवर्षस्तं 'पाणभूय'त्ति प्राणादिषु सामान्येन या दया सैवार्थः तद्भावस्तत्ता तया ॥ ' तत्थेव २' (सू. ५४३ ) तत्रैव शिरः- १५ श० प्रभृतिके 'किं भवं मुणी' त्ति किं भवान् मुनिः- तपखी जातः 'मुणिए 'त्ति ज्ञाते तत्त्वे सति ज्ञात्वा वा तवं अथवा किं भवान् मुनिरुता मुणिको ग्रहगृहीतः, यूकाशय्यातरः- यूकास्थानं 'पच्चो सक्कर' त्ति प्रत्यपसरतीत्यर्थः, 'सा उसिणं' ति स्वामिमुक्का तेजोलेश्यां 'से गयमेयं' ति अथ गतं अवगतमेतन्मया हे भगवन् ! यथा भगवत्प्रसादादयं न दग्धः सम्भ्रमार्थत्वाच्च गतशब्दस्य | पुनः पुनरुच्चारणं, इह गोशालकरक्षणं भगवता यत्कृतं तत्सरागत्वेन दयैकरसत्वात् भगवतः, यच्च सुनक्षत्र सर्वानुभूतिमुन्योर्न करि ष्यति तद्वीतरागत्वेन लब्ध्यनुपजीवकत्वादवश्यंभाविभावत्वाच्च इति ज्ञेयमिति, 'संखितविउल' त्ति सङ्क्षिप्ता अप्रयोगकाले विपुला प्रयोगकाले तेजोलेश्या - लब्धिविशेषो यस्य स तथा 'सणहाए'त्ति सनखया, यस्यां पिण्डिकायां बध्यमानायां अङ्गुलीनखा अङ्गुष्टस्याधो लगन्ति सा सनखेत्युच्यते,' कुम्मास'त्ति कुल्माषा अर्द्धस्विन्ना मुद्गादयो, माषा इत्यन्ये, 'वियडासएणं' ति विकटंजलं तस्याश्रवः - स्थानं तेन, अमुं प्रस्तावाच्चुलुकमाहुर्वृद्धाः ॥ 'पउहपरिहारं 'ति (सू. ५४४) परिवृत्य २ - मृच्चा २ वनस्पतिशरीरस्य परिहारः - परिभोगस्तत्रैवोत्पादोऽसौ परिवृत्यपरिहारस्तं परिहरति-कुर्वतीत्यर्थः, 'खुड्डेइ'त्ति त्रोटयति, 'पउट्टे 'ति परिवर्त्तवाद इत्यर्थः, ' आयाए अवक्कमणे'त्ति आत्मना आदाय वोपदेशं अपक्रमणं - अपसरणम् || 'जहा सिवे'त्ति (सू. ५४६) यथा शिवराजर्षिचरिते 'महया अमरिसं'ति महान्तममर्षं । 'एगं उवमियं ति (सू. ५४७ ) एकं मम सम्बन्धि महद्वा वर्यं औपम्यं - उपमां, दृष्टान्तमित्यर्थः, 'चिरातीए अद्धाए'ति चिरमतीते काले 'उच्चावयन्ति उच्चावचा - उत्तमनीचाः अर्थार्थिनः - द्रव्यार्थिनः अर्थलुब्धा: - अर्थगवेषिणः 'अत्थकंखिय'त्ति प्राप्तेऽप्यतृप्ताः 'अत्थपिवासिए'त्ति अप्राप्तार्थजाततृष्णाः 'पणियभंड' ति प्रणीतं - ॥२१८॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy