________________
श्रीभग० लघुवृत्तौ
SOU
'सुई व 'ति श्रूयत इति श्रुतिस्तां, चक्षुषा किलादृश्यमानोऽर्थः शब्देन निश्चयत इति श्रुतिग्रहणम्, 'खुई व'त्ति क्षवणं क्षुतिः - छीत्कृतं तां, एषाऽप्यदृश्यमानमनुष्यादिगमिका स्यादिति, 'पवत्तिं व'त्ति प्रवृत्तिं वार्तां शाटिकाः - परिधानवस्त्राणि 'पाडियाओ'त्ति उत्तरीयवस्त्राणि, क्वचिद् 'भंडियाओ'त्ति भण्डिका रन्धनभाजनानि, 'माहणा आयामेइति शाटकादीनर्थान् लंभयति, शाटकादीन् ब्राह्मणेभ्यो ददातीत्यर्थः, 'सउत्तरोड 'ति सहोत्तरौष्ठं - सश्मश्रुकं यथा स्यादेवं 'भंडं' ति मुण्डनं कारयति नापितेन, 'पणियभूमीए 'ति प्रणीतभूमौ - भाण्डविश्रामस्थाने प्रणीतभूमौ 'अभिसमन्नागए 'त्ति मिलितः 'एयमहं पडिसुणेमि त्ति अभ्युपगच्छामि, यच्च तस्यायोग्यस्यापि भगवतोऽङ्गीकारस्तत् छद्मस्थतया, 'अणिचजागरियं' ति अनित्यजागरिकां - चिन्तां कुर्वन्निति | वाक्यशेषः ॥ ' पढमसरयकालसमयंसि 'ति (सू. ५४२) समयभाषया मार्गशीर्षे 'अप्पबुडिकायंसि' त्ति, अल्पशब्दस्याभाववचनत्वादविद्यमान वर्षे इत्यर्थः, (अन्ये तु कार्त्तिकमार्गशीर्षौ शरदित्यभिधाय प्रथमशरदित्याश्विन इत्याह ) अल्पवृष्टिकायत्वाच्च तत्रापि विहरतां न दूषणमिति, एतच्चासङ्गतमेव, भगवतोऽप्यवश्यं पर्युषणस्य कर्त्तव्यत्वेन पर्युषणाकल्पेऽभिहितत्वात्, 'हरियगरे| रिज्जमानत्ति हरितक इतिकृत्वा रेरिज्जमाणेत्ति अतिशयेन राजमानः, 'तिलसंगलियाए'त्ति तिलकफलिकायां 'ममं पणिहाए'त्ति मां प्रणिधाय - मामाश्रित्य अयं मिथ्यावादी भवत्विति विकल्पं कृत्वा 'अन्भवद्दलए 'त्ति अभ्ररूपं वारो-जलस्य दलकंकारणं अभ्रवालकं 'पतणतणाएति' प्रकर्षेण तणतणायते, गर्जतीत्यर्थः, 'नच्चोदगनाइ महिये' ति नात्युदकं नातिकर्द्दमं यथा स्यादेवं 'पविरल'त्ति प्रविरलाः प्रस्पर्शिकाः - विप्रुषो यत्र तत्तथा 'रयरेणु'त्ति रजो - वातोत्पाटितं व्योमवर्त्ति रेणु - भूमिस्थितं पांशु तद्विनाशनं तदुपशमकं 'सलिलोदग' ति सलिला: - शीतादिमहानद्यः तासामिव यदुदकं रसादिगुण साधर्म्यात् तस्य यो वर्षः स स
१५ श०