SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती | उत्थानात्-जन्मत आरभ्य पारियानिकं उत्थानपारियानिकं, एतद्भगवता परिकथितमिति गम्यते, मंखे'त्ति मङ्खः-चित्रफलकव्यग्रकरो भिक्षाकः 'पाडिएक्कं ति एकमात्मानं प्रति प्रत्येकं, पितुः फलकाद्भिन्नमित्यर्थः॥ 'जहा भावणाए'ति (सू. ५४१) आचारद्वितीयश्रुतस्कन्धस्य पञ्चदशेऽध्ययने, अनेनेदं सूचितम् सम्मत्तपइन्ने-'नाहं समणो होहं अम्मापितरम्मि जीवंते'त्ति समाप्ताभिग्रह इत्यर्थः, चिचा हिरण्ण'मित्यादि, 'पढमं वासंति विभक्तिपरिणामात् प्रव्रज्याप्रतिपत्तेः प्रथमवर्षे 'निस्साए'त्ति निश्राय, निश्रां कृत्येत्यर्थः, 'पढम अंतरं वासावासंति विभक्तिपरिणामात् प्रथमेऽन्तरः-अवसरो वर्षस्य-वृष्टेयंत्रासावन्तरवर्षः, अथवा | अन्तरेऽपि-जिगमिषितक्षेत्रमप्राप्यापि यत्र सति साधुभिरावासो विधीयतेऽवश्यं सोऽन्तरावासो-वर्षाकालस्तत्र 'वासावासंति वर्षासु वासः-चातुर्मासिकमवस्थानं वर्षावासस्तमुपागतः 'दोच्चं वासंति द्वितीये वर्षे 'तन्तुवाय'त्ति कुविंदशाला 'दव्वसुद्धेणं ति द्रव्यं| ओदनादिकं शुद्धं-उद्गमादिदोषरहितं यत्र दाने तत्तथा तेन, एवमितरदपि, कयलक्खणे'त्ति कृतसफललक्षणः 'कया णं लोग'त्ति कृती-कृतशुभफलौ अवयवे समुदायोपचारात् लोको-इहलोकपरलोको 'जम्मजीविय'त्ति जन्मनो जीवितस्य च यत्फलं तत्तथा | 'तहारूवे' तथाविधे, अविज्ञातव्रतविशेष इत्यर्थः, साधौ-श्रमणे साधुरूपे साध्वाकारे 'धम्मंतेवासित्ति शिल्पादिग्रहणार्थमपि शिष्यः स्यादत उच्यते-धर्मान्तेवासी, खिजगविहीए'त्ति खण्डखाद्यादिभोजनविधिना 'सव्वकामगुणितेण' सर्वे कामगुणाअभिलपितरसादयस्सञ्जाता यत्र तत्सर्वकामगुणितं तेन 'परमन्नेणं'ति परमान्नेन-क्षीरेय्या 'आयामेत्य'त्ति आचामितवान् , तद्भोजनदानद्वारेणोच्छिष्टतासम्पादनेन तच्छुद्ध्यर्थमाचमनं कारितवान् , भोजितवानिति तात्पर्य, 'सभितरवाहिरए'त्ति सहाभ्यन्तरेण बाह्येन च विभागेन यत्तत्तथा तत्र 'मग्गणगवेसणं'ति अन्वयतो मार्गणं व्यतिरेकतो गवेषणं, ततश्च समाहारद्वन्द्वः, ॥२१७॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy