SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ । श्रीभग लघुवृत्तौ १ ९ उद्देशः यति ।। अचिराजवर्थः 'सुभ विकेन्द्रत्वाञ्च, तबिम्बं वा न्तात् दुःखात् संरक्षति सुखं चोत्पादयन्तीति आत्रः आप्ता वा-एकान्तहिताः॥ 'एगा णं सा भास'त्ति (सू . ५३५) एकाऽसौ भाषा जीवैकत्वेनोपयोगैकत्वात् , एकस्य हि एकदैक एवोपयोग इष्यते, ततश्च यदा सत्याद्यन्यतमभाषायां वर्तते तदा नान्यस्यामित्येकैव भाषेति ॥ अचिरोद्गतं उद्गतमात्रं अत एव बालसूर्य 'किमिदंति (सू. ५३६) किंवरूपमिदं सूर्यवस्तु, तथा किमिदं भदन्त ! सूर्यस्य-सूर्यशब्दस्यार्थः-अन्वर्थः 'सुभे सूरिएत्ति शुभस्वरूपं सूर्यवस्तु, सूर्यविमानपृथ्वीकायिकानामातपाभिधानपुण्यप्रकृत्युदयवर्तित्वात् लोकेऽपि प्रशस्ततया प्रवृत्तत्वात् ज्योतिष्केन्द्रत्वाच्च, तथा शुभः सूर्यशब्दार्थः, तथाहि-सूरेभ्य:-क्षमातपोदानसङ्ग्रामादिवीरेभ्यो हितः सूरेषु वा साधुः सूर्यः, पभ'त्ति दीप्तिः छाया शोभा प्रतिबिम्बं वालेश्यावर्णः॥ 'अजत्ताए'ति (सू.५३७) आर्यतया-मुख्यतया 'तेउलेस्सं'ति तेजोलेश्यां-सुखासिका, तेजोलेश्या हि सुखासिकाहेतुरिति कारणे कार्योपचारात् तेजोलेश्याशब्देन सुखासिका विवक्षितेति, 'वीईवयंति' व्यतिव्रजन्ति, व्यतिक्रामन्तीत्यर्थः, 'असुरिंदवज्जियाणं'ति चरमबलिवर्जि| तानां 'तेण परं'ति ततः संवत्सरात् 'सुक्के त्ति शुक्लो निरतिचारचारित्रः 'सुक्काभिजाए'त्ति शुक्लाभिजात्यः परमशुक्ल इत्यर्थः॥ १४ शते नवमः ॥ _ 'केवलि'त्ति (सू. ५३८) भवस्थकेवली गृह्यते, उत्तरत्र सिद्धग्रहणादिति, 'आहोहिय'ति प्रतिनियतक्षेत्रावधिज्ञानं 'परमाहो|हियंति परमावधिकं 'भासेज'त्ति भाषेत पृष्ट एव, 'वागरेज'त्ति पृष्टस्सन् व्याकुर्यात् 'ठाणं'ति उर्ध्वस्थानं, 'सेज्जति शय्यां वसतिं 'निसीहियंति अल्पतरकालिकां वसति 'चेइज्जत्ति व्याकुर्यादिति ॥ १४ शते दशमः॥ श्रीतपागच्छनायक श्रीलक्ष्मीसागरसूरिशिष्यश्रीसुमतिसाधुसूरिशिष्यश्रीहेमविमलसूरिविजयराज्ये २१६॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy