________________
श्रीभगः लघुवृत्तौ
दृढप्रतिज्ञाभिधानो महर्द्धिको भूत्वा सेत्स्यतीति । 'अव्वावाह' त्ति (सू. ५३०) अव्यावाधाः, ते च लोकान्तिकदेवमध्यगता द्रष्टव्याः यदाह - 'सारस्सय माइच्चा' इत्यादि, 'अच्छिपत्तंसि 'त्ति अक्षिपक्ष्मणि 'आबाई' ति ईपद्वाधां 'पवाहं' ति प्रकृष्टबाधां, 'वाबाहं' ति क्वचित्, तत्र तु व्यावाधां - विशिष्टामाबाधां 'छविच्छेयं' शरीरच्छेदं 'एसुहुमं च णं' ति इति सूक्ष्मं यथा स्यादेवं उपदर्शयन्नाट्य विधिमिति प्रकृतं, 'सपाणिण 'ति (सू. ५३१) स्वकपाणिना यदि शक्रः शिरसः कमण्डल्वां प्रक्षेपणे प्रभुः तत्प्रक्षेपणं कथं तदानीं करोति, उच्यते, छिंदिया २ छित्ता क्षुरप्रादिना कूष्माडादिकमिव श्लक्ष्णखण्डीकृत्येत्यर्थः प्रक्षिपेत् कमण्डल्वां भिदिय २ भित्त्वा - विदीर्योर्ध्वपाटनेन शाटकादिकमित्र, 'कुहिय'त्ति कुहयित्वा उदूखलादौ तिलकादिकमिव 'चुणिय'त्ति चूर्णयित्वा शिलापुत्रकादिना गन्धद्रव्यादिकमिव 'तओ पच्छ 'त्ति ततः कमण्डलुप्रक्षेपणानन्तरमित्यर्थः 'पडिसंघाएज्ज' ति प्रतिसङ्घातयेत्, मीलयेदित्यर्थः, 'पक्खिवेज्ज'त्ति कमण्डल्वामिति प्रकृतं । 'जंभग 'त्ति (सू. ५३२ ) जृम्भते - विजृम्भते स्वच्छन्द चारितया चेष्टन्ते ये ते जृम्भकाः- तिर्यग्लोकवासिनो व्यन्तरदेवाः 'पमुइय'त्ति प्रमुदिताः - तोषवन्तः, प्रक्रीडिताः - प्रधानक्रीडाः 'कंदप्प' त्ति भृशंकेलिरतिका: 'मोहणसील'त्ति निधुवनशीलाः 'जे णं'ति यः कश्चित्पुमान् 'कुद्धे 'ति क्रुद्धः सन् 'ते देवे 'ति तान् देवान् 'पासेज्ज' त्ति पश्येत् ' से 'ति स नरः 'अजसं 'ति अनर्थं प्राप्नुयात्, 'तुट्ठे 'ति तुष्टः सन् यः पश्येत् 'से णं' ति स नरः 'जसं 'ति यशः प्राप्नुयात् वज्रस्वामिवत् वैक्रियलब्ध्यादि. किमर्थं लभेत ?, शापानुग्रहकरणसमर्थत्वात्, तच्छीलत्वात्तेषामिति, यत उक्तम्- 'देवाणं आसायणाए देवीणं आसायणयाए 'ति वचनात्, 'अन्नजं भए 'त्ति अन्ने - भोजनविषये सद्भावाल्पबहुत्वसारस्य नैरस्यादिकरण तो जृम्भते तथा, एवं पानादिष्वपि वाच्यं, 'लेणं' ति लयनं गृहम्, 'पुप्फफलजं भगे'त्ति उभयजृम्भकाः, वाचनान्तरे 'मंतजं भग' त्ति
१४ श० ८ उद्देशः
॥२१५॥