SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती AMINATIMelimIIMIRRITISGIRMIRumalni अन्यथा रविप्रकाशादेरपि प्रमाणयोजनाऽप्रमेयता स्यात् , तथा चाधोलोकग्रामेषु तत्प्रकाशाप्राप्तिः प्राप्नोति, आत्माङ्गुलस्यानियत १४ श० | त्वेनाव्यवहाराङ्गतया रविप्रकाशस्योच्छ्ययोजनप्रमेयत्वात्तस्य चातिलघुत्वेन प्रमाणयोजनप्रमितक्षेत्राणामव्याप्तिरिति, यच्चेपत्प्राग्भा-ICTET | रायाः पृथिव्या लोकान्तस्य चान्तरं तदुच्छ्याङ्गुलनिष्पन्नयोजनप्रमेयमित्यनुमीयते, यतस्तस्य योजनस्योपरितनक्रोशस्य षभागे | सिद्धावगाहना धनुस्विभागयुक्तत्रयस्त्रिंशदधिकधनुःशतत्रयमानाभिहिता, सा चोच्छ्ययोजनाश्रयणत एव युज्यत इति, उक्तं च "ईसिंपब्भाराए उवरिं खलु जोयणस्स जो कोसो। कोसस्स य छब्भाए सिद्धाणोगाहणा भणिया ॥१॥" 'देसूणं जोअणं'ति इह सिद्ध्यलोकयोदशोनं योजनमन्तरमुक्तं, आवश्यके तु योजनमेव, तत्र च किश्चिन्यूनताया अविवक्षणान विरोधो मन्तव्य इति । 'दिव्वेत्ति (सू. ५२७) प्रधानः 'सच्चोवाए'त्ति सत्यावपातः-सफलसेवः 'सन्निहियपाडिहेर'त्ति सन्निहितं-विहितं प्रातिहार्य प्रतीहारकर्म-सान्निध्यं देवेन यस्य स तथा ।। 'एवं जहा उववाइए जाव आराहग'त्ति (सू.५२८) इह यावत्करणादिदमर्थ| तोलेशेन दृश्यं, ग्रीष्मकालसमये गङ्गाया उभयकूलतः काम्पिल्यपुरात्पुरिमतालपुरं प्रति प्रस्थितानि, ततस्तेषामटवीप्रविष्टानां पूर्व| मुदकं गृहीतं क्षीणं पीयमानं, ततस्ते तृष्णाभिभूता उदकदातारमलभमाना अदत्तं च तदगृह्णन्तोऽर्हन्नमस्कारपूर्वकं अनशनप्रतिपत्त्या | कालं कृत्वा परलोकं गता ब्रह्मदेवलोकं, परलोकाराधका जाता इति ॥ 'घरसए'त्ति (सू. ५२९) 'एवं जहे त्यादिना यत्सूचितं | तदर्थतो लेशेनैवं दृश्यं-गृहशते २ अन्नादि भुङ्क्ते वसति तिष्ठति चेति, एतच श्रुत्वा गौतम आह-कथमेतत् भदन्त !, ततो वीर उवाच-गौतम ! सत्यमेतत् , यतस्तस्य वैक्रियलब्धिरस्ति, ततो जनविस्मापनहेतोरेवं कुरुते, ततो गौतम उवाच-प्रजिष्यत्येव भगवतां समीपे ?, वीर उवाच-नैवं, केवलमयमधिगतजीवाजीवत्वादिगुणः कृतानशनो ब्रह्मलोकं गमिष्यति, ततच्युतश्च महाविदेहे in.linkulailinालमाTHIHINirahima TimesunamaATIHANIDE
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy