SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ श्रीभग०। वा स्वभावत एव कालं मरणं करोति-याति,'तओ पच्छत्ति ततः पश्चात-मृतेरनन्तरं अमञ्छितादिविशेषण आहारमाहारयति | १४ श० लघुवृत्ती प्रशान्तपरिणामसद्भावादिति प्रश्नः, अनोत्तरम्-'हन्ता गोयमे त्यादि, अनेन तु प्रश्नार्थ एवाभ्युपगतः, कस्यापि भक्तप्रत्याख्या- ७-८ उ. तुरेवम्भूतभावस्य सद्भावादिति ॥ 'लवसत्तम'त्ति (सू . ५२४) लवाः-शाल्यादिकवलिकालवनक्रियाप्रमिता कालविभागाः सप्त २ सङ्ख्या मान-प्रमाणं यस्य कालस्यासौ लवसप्तमः, लवसप्तमं कालं यावत् आयुष्यप्रभवति सति ये शुभाध्यवसायवृत्तयः | सिद्धिं न गताः, अपि तु देवेपूत्पन्नाः ते लवसप्तमाः, ते सर्वार्थसिद्धानुत्तरवासिनः,'पिक्काणं' पक्कानां 'परियायाणं ति पर्यायगतानां-लवनीयावस्थां प्राप्तानां 'हरियाणं ति पिङ्गीभृतनालानां 'नवपज्जएणं'ति नव-प्रत्यग्रं 'पज्जएणं'ति प्रतापितस्यायोधनकुहनेन तीक्ष्णीकृतस्य पायनं-जलनिबोलनं तेन नवपायनेन 'असियएणं'ति दात्रेण 'पडिसंहरिय' प्रतिसंहृत्य विकीर्णनालान् | बाहुना सङ्ग्रह्य 'पडिसंठविय' मुष्टिग्रहणेन सङ्क्षिप्य 'जाय इणामेव'त्ति प्रज्ञापकस्य लवनक्रियाशीघ्रत्वोपदर्शनपरचप्पुटिकादि हस्तव्यापारसूचकं वचनं 'सत्तलवेत्ति लूयन्ते इति लवाः-शाल्यादिनालमुष्टयस्तान् सप्तलवान् 'लुएन्ज'त्ति लुनीयात् , तत्र सप्त| लवलवने यावान् कालः स्यात् वाक्यशेषो दृश्यः, 'तेसिं देवाणं'ति द्रव्यदेवत्वे, साध्ववस्थायामित्यर्थः, 'तेणं चेव'त्ति यस्य भवग्रहणस्य सम्बन्धि आयुर्न पूर्ण तेनैव मनुष्यभवग्रहणेनेत्यर्थः॥ 'छट्ठभत्तिए'त्ति (सू. ५२५) षष्ठभक्तिकः साधुर्यावत्कर्म क्षप| यति एतावता कर्मणाऽनिबर्णनानुत्तरोपपातिका देवा उत्पन्ना इति ।। १४ शते सप्तमः॥ ___ 'आवाहाए'त्ति बाधा-मिथः पीडनं संश्लेषतः, न बाधा अबाधा तया यदन्तरं-व्यवधानमित्यर्थः, 'जोयणसहस्साई'तिITMan (सू. ५२६) इह योजनं प्रमाणाङ्गुलनिष्पन्न ग्राह्यं,'नगपुढविविमाणाई मिणसु पमाणंगुलेणं तु' इत्यत्र नगादिग्रहणस्योपलक्षणत्वाद्,
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy