________________
१४ श० ६ उद्देश:
लघुवृत्तौ
श्रीभगम प्राप्तकर्मणां विनाशेन सह उपशमः २ तेन क्षयोपशमेन निवृत्तः क्षायोपशमिकः-मतिज्ञानादिपर्यायः, ननु औपशमिकस क्षायोपश
| मिकस्य च कः प्रतिविशेषः १, उभयत्रापि उदीर्णस्य क्षयस्यानुदीर्णस्य चोपशमस्य भावाद् , उच्यते, क्षायोपशमिके विपाकवेदनमेव नास्ति, प्रदेशवेदनं पुनरस्त्येव, औपशमिके तु प्रदेशवेदनमपि नास्तीति, 'परिणामिए'त्ति परिणमनं परिणामस्स एव पारिणा| मिकः, सन्निवाइए'त्ति सन्निपातः-औदयिकभावानां द्वयादिसंयोगस्तेन जातः सान्निपातिकः, संठाणतुल्लए'त्ति संस्थान-आकृतिः, | तच्च द्विधा, जीवाजीवभेदात् , तत्र अजीवसंस्थानं पञ्चधा, तत्र 'परिमण्डल'त्ति परिमण्डलं संस्थान-बहिवृत्ताकारं मध्येशुषिरं यथा | वलयस्य, तच्च द्विधा-धनप्रतरभेदात् 'वह'ति वृत्तं परिमण्डलमेव अन्तःशुषिररहितं यथा कुलालचक्रं, इदमपि द्विधा घनप्रतरभेदात् ,
पुनरेकैकं द्विधा-समसङ्ख्यविषमसङ्ख्यप्रदेशभेदात् , एवं व्यत्रं चतुरस्रं च, त्र्यस्त्रं-त्रिकोणं शृङ्गाटकस्येव चतुरस्रं-चतुष्कोणं | यथा कुम्भिकायाः, आयतं-दीर्घ यथा दण्डस्य, तच्च त्रिधा-श्रेण्यायतप्रतरायतघनायतभेदात् , एकैकं द्विधा-समसङ्ख्यविषमसङ्ख्यप्रदेशभेदात, इदं च पञ्चधा विश्रसाप्रयोगाभ्यां स्यात् , जीवसंस्थानं तु संस्थानाख्यनामकर्मोत्तरप्रकृत्युदयकृतोजीवानामाकारः, तच्च पोढा-समचउरंसे'त्यादि, सर्वाङ्गसुलक्षणं 'नग्गोह'त्ति न्यग्रोधो-बटस्तद्वत् 'परिमण्डलं' नाभीत उपरि चतुरस्रलक्षणयुक्तमधश्च विषम, 'साइ'त्ति अधः समं नाभीतो विषमं 'खुज'त्ति कुलं ग्रीवादी हस्तपादयोः समं सङ्क्षिप्तकृतमध्यं 'वामणे'त्ति वामनं ग्रीवादी हस्तपादयोर्विषम मध्ये समं 'हुंड'त्ति हुण्डं सर्वत्र विषमं । 'भत्तपञ्चक्खाएण'ति (सू.५२३) अनशनी मूर्च्छितःसञ्जाताहारगृद्धिः 'अज्झुववण्णे'त्ति अप्राप्ताहारचिन्तनाधिक्येनोपपन्नः अध्युपपन्नः, आहारं-वायुतैलाभ्यङ्गादिकमोदनादिकं वा अभ्यवहार्य, तीव्रक्षुद्वेदनीयकर्मोदयादसमाधौ सति तदुपशमनाय प्रयुक्तमाहारयति-उपभुते 'अहे णं'ति अथाहारानन्तरं विश्रसा
DISHAHIDIHAHISHIDHI CHAHIHINDIHANIPATOHI HONIA HINDIHA MADHASIRIDHI PIOLETIES