SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ चुय'त्ति इतयुतौ द्वावप्यावां तुल्यौ भविष्याव इति योगः, तत्र तुल्यौ समानजीवद्रव्यौ 'एगड' त्ति एकार्थी, मोक्षप्रयोजनावित्यर्थः, एकस्थौ वा एकक्षेत्राश्रितौ सिद्धिक्षेत्रे इति, 'अविसेसमणाण' त्ति अविशेषं सामान्यं यथा स्यादेवं अनानात्वौ तुल्यज्ञानदर्शनाविति ॥ एतमर्थं किमनुत्तरोपपातिका देवा जानन्तीति प्रश्नः (सू. ५२१) अत्रोत्तरम् - हन्तेति 'लद्वाओ' ति लब्धास्तद्विषयाव धिज्ञानलब्ध्या 'पत्ताओ' ति प्राप्तास्तद्द्रव्यावगमतः अभिसमन्वागताः तद्गुणपर्यायपरिच्छेदतः, अयमर्थः - अनुत्तरा देवा विशिष्टावधिना मनोद्रव्यवर्गणा जानन्ति पश्यन्ति च, तासां चायोग्यवस्थायामदर्शनेन निर्वाणगमनं निश्चिन्वन्ति, ततश्चावयोर्भा वितुल्यतारूपमर्थं जानन्ति पश्यन्ति च ।। 'दब्बतुल्लए' ति (सू. ५२२) द्रव्यतः - एकाणुकाद्यपेक्षया द्रव्यान्तरेण वा तुल्यकं द्रव्यतुल्यकं, 'खेत्ततुल्ल'ति क्षेत्रतः - एकप्रदेशावगाढत्वादिना तुल्यकं, एवं नवरं भवो-नारकादिः भावो - वर्णादिरौदयिकादिर्वा संस्थानंपरिमण्डलादि, इह तुल्यव्यतिरिक्तमतुल्यं स्यात् तदपीहोच्यते- 'तुल्ला संखेज्जपएसिए'ति तुल्याः - समानाः सख्येयाः प्रदेशा यत्र स तथा, तुल्यग्रहणमिह सङ्ख्यातत्वस्य सङ्ख्यातभेदत्वात् न सङ्ख्यातमात्रेण तुल्यताऽस्य स्याद्, अपि तु समानसङ्ख्यात्वेनेत्यस्यार्थस्य प्रतिपादनार्थम्, एवमन्यत्रापीति, यच्चेहानन्तक्षेत्र प्रदेशावगाढत्वमनन्तसमयस्थायित्वं च नोक्तं, तदवगाहप्रदेशानां स्थितिसमयानां च पुद्गलानाश्रित्यानन्तानामभावात्, 'भावडयाए 'ति भावार्थतया 'उदइए' ति उदयेन कर्मणां विपाकेन निष्पन्न औदयिको भावो - नारकादिपर्यायविशेषः, औदयिकस्य भावस्य नारकत्वादेर्भावतो - भावसामान्यमाश्रित्य तुल्यः- समः, 'उवसमिए 'त्ति औपशमिकोऽप्येवं वाच्यः, तत्र उदीर्णस्य क्षयोऽनुदीर्णस्य विष्कम्भितोदयत्वमुपशमः तेन निर्वृत्त औपशमिक:सम्यग्दर्शनादिः, 'खइए' त्ति कर्मक्षयः (कर्मापगमः) तेन निर्वृत्तः क्षायिकः - केवलज्ञानादिः, 'खओवसमिए 'त्ति क्षयेण - उदय JOLJOLJ १४ श० ६ उद्देशः |॥२१३॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy