________________
श्रीभग० लघुवृत्तौ
POST
पापरूपत्वात् तिर्यग्गतिरनिष्टैव स्यात्, तथा ईपत्प्राम्भारा अप्रतिष्ठानादिक्षेत्रोत्पत्तिद्वारेणेष्टानिष्टा गतिस्तेषां भावनीयेति, 'इडाणिट्ठा ठिइति सा च गतिवद् भावनीया, 'लावण्णे' त्ति इदं च मण्यंधपाषाणवस्तुषु भावनीयम्, 'जसोकित्ति' त्ति प्रसिद्धिरप्रसिद्धिरूपा यशः कीर्त्तिर्मण्यादिष्वेवावसेयेति, 'उट्ठाणं जाव'त्ति उत्थानादि च यद्यपि तेषां स्थावरत्वान्नास्ति तथापि प्राग्भवानुभूतोत्थानादिसंस्कारवशात्तदिष्टमनिष्टं चात्रसेयमिति, 'सत्तट्टणाई' ति शब्दरूपगन्धानां तदविषयत्वात् रसस्पर्शादिस्थानानि च शेषाणि एकेन्द्रियाणामिवेष्टानिष्टान्यवसेयानि, गतिस्तु तेषां त्रसत्वाद् गमनरूपा द्विविधाऽप्यस्ति, स्थितिस्तूत्पत्तिस्थानविशेषेणेष्टानिष्टाव सेयेति । अथ 'तिरियपुग्गले' ति द्वारमाह- 'बाहिरए 'त्ति (सू. ५१६) भवधारणीयवपुर्भिन्नान् 'अपरियाइत्त' ति अपर्यादाय- अगृहीत्वा 'भित्ति'ति तिर्यग्ग्राकारवरंडिकादिभित्तिं 'उल्लंघित्तए 'ति उल्लङ्घयितुं सकृदुलङ्घनेन 'पलंघित्तए 'त्ति प्रलङ्घयितुं पुनः २ उल्लङ्घनेन । १४ शते पञ्चमः ॥
'किमाहार' त्ति (सू. ५१७ ) किमाहारयन्ति इति किमाहाराः 'किं परिणाम'त्ति किमाहारितं सत्परिणामयति इति किंपरि णामाः 'किंजोणीय'त्ति किं योनिः - उत्पत्तिस्थानं येषां ते किंयोनिकाः, एवं किंस्थितिकाः स्थितिः - अवस्थानहेतुः १, अत्रोत्तरम् - क्रमेणैव व्यक्तं दृश्यम्, नवरं ' पुग्गलजोणिय'त्ति पुद्गलाः शीतादिस्पर्शा योनी येषां ते, नारका हि शीतयोनयः उष्णयोनयश्च, 'पुग्गलठि 'ति पुद्गलाः- आयुः कर्मपुद्गला स्थितिर्येषां नरके स्थितिहेतुत्वात् ते, अथ कस्मात्ते पुद्गलस्थितयः स्युः १, अत आह'कम्मोवगे' ति कर्म्म - ज्ञानावरणादिपुद्गलरूपं बन्धनद्वारेणोपगच्छन्ति इति कर्मोपगाः, कर्म निदानं नारकत्वनिमित्तं कर्मबन्धहेतुत्वं वा येषां ते कर्मनिदानाः, कर्म्मणः - कर्मपुद्गलेभ्यः सकाशात् स्थितिर्येषां ते कर्म्मस्थितयः, 'कम्मुणामेव 'ति कर्मणैव हेतुभूतेन
१४ श० ५-६ उ.