________________
१.४
श्रीभग लघुवृत्ती
नेन समुद्घातागमनादिति, तदपेक्षया कालतश्चरमोऽसाविति, सामान्यकालापेक्षया त्वचरम इति, 'भावाएसेणं'ति भावो-वर्णा-| दिविशेषः, तेन प्रकारेण स्यात-कथञ्चिच्चरमः, कथं ?, विवक्षितकेवलिसमुद्घातावसरे यः पुद्गलो वर्णादिभावविशेष परिणतः स | विवक्षितकेवलिसमुद्घातविशेषितवर्णपरिणामापेक्षया चरमो यस्मात् तत्केवलनिर्वाणे पुनस्तं परिणाममसौन प्राप्स्यति, इदं व्याख्यान चूर्णिकारमाश्रित्य कृतमिति, 'परिणाम त्ति (सू.५१३) तत्र परिणमनं-द्रव्यस्थावस्थान्तरगमनं परिणामः, आह च-"परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न तु सर्वथा विनाशः परिणामस्तद्विदामिष्टः ।।१।।" 'परिणामपयंति प्रज्ञापनायां त्रयोदशं, तच्चेदम्-'जीवपरिणामे णं भंते ! कइविहे पण्णत्ते!, गो०! दसविहे पण्णत्ते, तंजहा-गतिपरिणामे इंदियपरिणामे एवं कसायलेसाजोगुवओगनाणदंसणवेदपरिणामे' इत्यादि, तथा 'अजीवपरिणामे दसविहे पं०, तं०-बंधणपरिणामे गतिपरिणामे २ एवं संठाणे |३ वेय ४ वण्ण ५ गंध ६ रस ७ फास ८ अगुरुलहु ९ सद्दपरिणामे १०'इत्यादि ॥ १४ शते चतुर्थः ।। | इह उद्देशकार्थसङ्ग्रहगाथा दृश्यते, सा चेयम्-'नेरइय अगणिमज्झे दस ठाणा तिरियपोग्गले देवे । पच्चयभित्तीउल्लंघणा य उल्लं
घणा चेव ॥१॥त्ति, अस्यार्थ उद्देशकार्थावगमगम्य इति, 'नो खलु तत्थ सत्थं कमई' (सू. ५११) विग्रहगतिसमापन्नो हि | कार्मणशरीरत्वेन सूक्ष्मत्वाच्च तत्र शस्त्रम्-अम्यादिकं न कामति, तत्थणं जे से'त्ति, अविग्रहगतिसमापन्न उत्पत्तिक्षेत्रोपपन्नोऽभिधी| यते, न तु ऋजुगतिसमापनस्तस्येह प्रकरणेऽनधिकृतत्वात् , स च अग्निकायस्य मध्ये नव्यतिव्रजति, नारकक्षेत्रे चादराग्निकायस्थाभावान्मनुष्यक्षेत्र एव तद्भावात् , यदुत्तराध्ययने श्रूयते 'हुयासणे जलंतंमि, दडपुन्यो अणंतसो'इत्यादि तदग्निसदृशद्रव्यान्तरापेक्षया अवसेयम् , सम्भवन्ति च तथाविधशक्तिमन्ति द्रव्याणि तेजोलेश्याद्रव्यवदिति, असुरसूत्रे विग्रहगतिको नारकवत् , अविग्रहगतिस्तु
attrientiretail PIDI IDAITAMINDANADAIN DIEngatre I IS AN I
NDIPAINAINTING