SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ को भावः - पर्यायो दुःखितत्वादिरूपो यस्मिन् स तथा तमनेकभावं परिणाममिति योगः, 'अणेग भूयं' ति अनेक भावत्वादेवानेकरूपं परिणामस्वभावं 'परिणमइ'त्ति अतीतकालविषयत्वादस्य परिणतवान् प्राप्तवानिति, 'अहे से' ति अथ तद्दुःखित्वाद्यनेकभावहेतुभूतं 'वेय णिज्ज' त्ति वेदनीयं कर्म उपलक्षणत्वाच्चास्य ज्ञानावरणीयत्वादि च निर्जीर्णं क्षीणं स्यात् ततः पश्चात् 'एग भावे 'ति एको भावः सांसारिक सुखविपर्ययात् स्वाभाविकसुखस्वभावो यस्यासावेकभावोऽत एवैकभूतः - एकत्वं प्राप्तः 'सिय'त्ति बभूव, कर्मकृतधर्मान्तरविरहादिति प्रश्नः, इहोत्तरमेतदेव, एवं प्रत्युत्पन्नानागतसूत्रे अपीति । 'परमाणुपोग्गले णं' ति (सु. ५११) पुद्गलः स्कन्धोऽपि स्यात्, अतः परमाणुग्रहणं 'वण्णपज्जवेहिं' ति परि-सामस्त्येनावंति - गच्छन्ति ये ते पर्यवा - विशेषाः धर्म्मा वा इत्यनर्थान्तरं, ते च वर्णादिभेदादनेकधेत्यतो विशिष्यते - वर्णस्य पर्यवा वर्णपर्यवा अतस्तैरशाश्वतः - विनाशी, पर्यवाणां पर्यवत्वेन विनश्वरादिति, (सू: ५१२) यः परमाणुर्यस्माद्विवक्षितभावाच्युतस्सन् पुनस्तद्भावं न प्राप्स्यति स तद्भावापेक्षया चरमः 'अचरमे 'ति एतद्विपरीतस्त्वचरम इंति, 'दव्वादेसेणं'त्ति आदेश : - प्रकारः तेन द्रव्यादेशेन द्रव्यप्रकारेण न चरमः, स हि द्रव्यतः परमाणुत्वाच्च्युतः सङ्घातमवाप्यापि ततश्युतः परमाणुत्वरूपं द्रव्यत्वमवाप्स्यतीति, 'खेत्ता देस' त्ति क्षेत्रविशेषितत्वलक्षणप्रकारेण स्यात्कदाचिच्चरमः, कथं यत्र क्षेत्रे केवली समुद्घातं गतस्तत्र क्षेत्रः यः परमाणुरवगाढोऽसौ तत्र क्षेत्रे तेन केवलिना समुद्घातगतेन विशेषितो न कदाप्यवगाहं लप्स्यते, केवलिनो निर्वाणगमनादित्येवं क्षेत्रतश्वरमोऽसाविति, निर्विशेषेण क्षेत्रापेक्षया त्वचरमः, तत्क्षेत्रावगाहस्य पुनस्तेन लप्स्यमानत्वात् 'कालादेसेणं' ति स्यात्कथञ्चिच्चरमः, कथं ?, यत्र काले पूर्वाह्नादौ केवलिना समुद्घातः कृतस्तत्रैव यः परमाणुः परमाणुतया वृतः स तं कालविशेषं के वलिसमुद्घातविशेषितं न कदापि प्राप्स्यति, तस्य केवलिनः सिद्धिगम १४ श० ४ उद्देशः ||॥२१०॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy