SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ श्रीभग m गरूवंति पूर्व च एकवर्णादिपरिणामात्प्रागेव करणेन-प्रयोगकरणेन विश्रसाकरणेन वा अनेकवर्ण कालनीलवर्णादिभेदेन अनेक- १४ श० | रूपगन्धरसस्पर्शसंस्थानभेदेन परिणाम-पर्यायं 'परिणमई'त्ति अतीतकालविषयत्वादय परिणतवानिति द्रष्टव्यम् , पुद्गल इति । ४ उद्देशः प्रकृतं. स च यदि परमाणुस्तदा समयभेदेनानेकवर्णादित्वं परिणतवान् , यदि च स्कन्धस्तदा यौगपद्येन, अहे से'त्ति अथानन्तरं | स एष चानेकवर्णादिपरिणामो निर्जीर्णः-क्षीणः स्यात् , परिणामान्तराधायककारणोपनिपातवशात् , ततो निर्जरणानन्तरं एकवर्णोऽपेतवर्णान्तरत्वादेकरूपो विवक्षितगन्धादिपर्यायापेक्षयाऽपरपर्यायाणामपेतत्वात् 'सिय'त्ति बभूव अतीतकालविषयत्वादस्येति प्रश्नः, | इहोत्तरमेतदेवेति, अनेन च परिणामता पुद्गलद्रव्यस्य प्रतिपादितेति, ‘पडुप्पण्णं'ति विभक्तिपरिणामात् प्रत्युत्पन्ने-वर्तमाने | शाश्वते सदैव तस्य भावात् समये-कालमात्रे 'एवं चेव तिकरणात् पूर्वसूत्रोक्तमिदं दृश्यम् , 'समयं लुक्खी समयं अलुक्खी | लुक्खी वा अलुक्खी वे'त्यादि, यच्चेहानन्तमिति नाधीतं तद्वर्त्तमानसमयस्यानन्तत्वासम्भवाद् , अतीतानागतसूत्रयोस्तु अनन्तमित्यधीतं तयोरनन्तत्वसम्भवादिति । अनन्तरं पुद्गलस्वरूपमुक्तम् , पुद्गलश्च स्कन्धोऽपि स्यादिति पुद्गलभेदभूतस्य स्कन्धस्य | स्वरूपं दर्शयन्नाह-'एस णं भंते ! खंधे इत्यादि। स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादिति जीवस्वरूपमाह-'एसणं भंते ! जीवे'त्ति (सू. ५१०) एष प्रत्यक्षो जीवोऽतीतेऽनन्ते शाश्वते समय समयमेकं दुःखहेतुयोगात् समयं दुःखी सुखहेतुयोगात् सम| यमेकं सुखी बभूव, समयमेव सुखी दुःखी वा तद्धेतुयोगात्, न पुनरेकदा दुःखसुखवेदनमस्त्येकोपयोगत्वाजीवस्येति, एवंरूपः सन्नसौ स्वहेतुतः किमनेकभावं परिणामं परिणमति पुनश्चैकभावपरिणामः स्यादिति पृच्छन्नाह-'पुटिव च णं करणेणं अणेगभावं'ति पूर्व च एकभावं परिणामात्प्रागेव करणेन-कालस्वभावादिकारणसंवलितया शुभाशुभकर्मबन्धहेतुभूतया क्रियया अने
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy