SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ यातीति उक्तं च- “विदिसाउ दिसं पढमे बीए पइसरइ नाडिमज्झमि । उट्टं तहए तुरिए उनीह विदिसं तु पंचमए ॥ १ ॥ | " | 'सेसं तं चेव'त्ति 'पुढविकाइयाणं भंते! कहं सीहागइत्ति, सर्व यथा नारकाणां तथा वाच्यमित्यर्थः ॥ अथानन्तरोत्पन्नत्वादि प्रतीत्यापरं तमेवाह - 'अनंत रोववण्णग'त्ति (सू. ५०१) न विद्यन्तेऽन्तरं - समयादिव्यवधानं उपपन्ने - उपपाते येषां ते अनन्तरोपपन्नकाः 'परंपरोववण्णग'त्ति परम्परा-द्वित्रादिसमयता उपपन्ने - उपपाते येषां ते परम्परोपपन्नकाः, 'अणंतर परंपरउववन्नग' त्ति अनन्तरम् - अव्यवधानं परम्परं च-द्वित्रादिसमयरूपम् अविद्यमान उपपन्न-उपपातो येषां ते तथा, एते च विग्रहगतिकाः, विग्रहगतौ हि द्विविधस्याप्युत्पादस्याविद्यमानत्वादिति, अथानन्तरोपपन्नादीनाश्रित्यायुर्बन्धमभिधातुमाह-'अणंतरे' त्यादि, इहैवानन्तरोपपन्नानां अनन्तरपरम्परानुपपन्नानां च चतुर्विधस्याप्यायुषः प्रतिषेधोऽध्येतव्यः, तस्यामवस्थायां तथाविधाध्यवसायस्थानाभावेन सर्वजीवानामायुषो बन्धाभावात् स्वायुषस्त्रिभागादौ च शेषे बन्धसद्भावात्, परम्परोपपन्नकास्तु स्वायुषः पण्मासे शेषे मतान्तरेणोत्कर्पतः पण्मासे जघन्यतश्चान्तर्मुहूर्ते शेषे भवप्रत्ययातिर्यग्मनुष्यायुषी एव कुर्वन्ति, 'नेरइय'त्ति एवं 'जाव वेमाणिय'त्ति अनेनोक्तालापकत्रययुक्तश्चतुर्विंशतिदण्डकोऽध्येतव्य इति सूचितं, यश्चात्र विशेषस्तं दर्शयतुमाह-नवरं 'पंचिदिए'त्यादि, अथानन्तरनिर्गतत्वादिना अपरं दण्डकमाह- 'नेरइयाणं'ति तत्र निश्चितस्थानान्तरप्राप्या गतं गमनं निर्गतं अनन्तरसमयादिना निर्व्यवधानं निर्गतं येषां ते अनन्तर निर्गताः, ते च येषां नरकादुदृत्तानां स्थानान्तरं प्राप्तानां प्रथमः समयो वर्त्तते, तथा परम्परेण - समयपरम्परया निर्गतं तेषां ते तथा, ते च येषां नरनादुद्वृत्तानां उत्पत्तिस्थानप्राप्तानां द्वयादयः समयाः, अनन्तरपरम्परा निर्गतास्तु ये नरकादुद्वृत्ताः सन्तो विग्रहगतौ वर्त्तन्ते न तावदुत्पादक्षेत्र मानुयात् तेषामनन्तरभावेन परम्परभावेन च उत्पादक्षेत्राप्राप्तत्वेन निश्चये १४ श० १ उद्देशः ॥२०७॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy