________________
श्रीभग० लघुवृत्तौ
देवावासेषु तस्यानगारस्य गतिः स्यात्, यत उच्यते- 'जल्ले से मरइ जिए तल्लेसे उपवई' त्ति, 'से य'त्ति स पुनरनगारस्तत्र मध्यभागवर्त्तिनि देवावासे गतः 'विराहेज' ति येन लेश्यापरिणामेन तत्रोत्पन्नस्तं परिणामं यदि विराधयेत् तदा 'कम्मलेस्सामेव 'त्ति | कर्मणः सकाशात् या लेश्या जीवपरिणतिः सा कर्मलेश्या, भावलेश्येत्यर्थः, तामेव प्रतिपतति तस्या एव प्रतिपतति, अशुभतरां तां याति, न तु द्रव्यलेश्यायाः प्रतिपतति, सा हि प्राक्तन्येवास्ते, द्रव्यतोऽवस्थितलेश्याभावात् देवानामिति, पक्षान्तरमाह - 'से य तत्थ'त्ति सः अनगारस्तत्र - मध्यदेवावासे गतः सन् यदि न विराधयेत्तं परिणामं तदा तामेव लेश्यां ययोत्पन्नः उपसम्पद्य विहरति - आस्ते 'अणगारे णं'ति ननु भावितात्माऽनगारः स कथमसुर कुमारेषृत्पद्यते, विराधितसंयमानां तत्रोत्पादादिति, उच्यते- पूर्वकालापेक्षया भावितात्मत्वम् अन्तकालेऽपि संयमविराधनासद्भावादसुरकुमारादितयोपपात इति न दोषः, बालतपस्वी वाऽयं भावितात्मा द्रष्टव्यः ॥ ' कहं सीहा गइ त्ति (सु. ५००) कथं - केन प्रकारेण नारकाणामुत्पद्यमानानां शीघ्रा गतिः स्यात् इति प्रतीतम्, यादृशेन च शीघ्रत्वेन शीघ्रासाविति च न प्रतीतं न ज्ञातमित्यतः कृतः प्रश्नः 'कहं सीहे'त्ति कथमिति कीदृशः, 'सीहे' ति शीघ्रः गतिविषयो- गतिगोचरस्तद्धेतुत्वात्काल इत्यर्थः कीदृशी शीघ्रा गतिः कीदृक् तत्कालश्च इति तात्पर्यम्, 'तरुणेत्ति प्रवर्द्धमानवयाः, 'बलवं 'ति शारीरप्राणवान् बलं च शारीरं युगं च - कालविशेषः, तद्विशिष्टबलहेतुभूतं यस्यासौ युगवान् 'आउंटियं' ति सङ्कोचितं, 'विकिण्णंति विकीर्णं प्रसारितम्, 'साहरेज'त्ति संहरेत् सङ्कोचयेत् 'विकिवरेज्ज' त्ति विकिरेत् प्रसारयेत् 'उम्मिसि अंति उन्मिषितं - उन्मीलितं 'निमिसेज्ज'ति मीलयेत् 'भवेयतारूवे' त्ति काक्काऽध्येयम्, काकुपाठे चायमर्थः, यदुत एवं मन्यसे त्वं गौतम ! भवेत् तद्रूपं भवेत् स स्वभावः शीघ्रतायां नारकगतेस्तद्विषयः यदुक्तं विशेषणपुरुषबाहु प्रसारणादेरिति, एवं गौतम
CH
१४ श०
१९ उद्देशः
॥२०६ ॥