________________
श्रीभग लघुवृत्ती
श्रीजिनमाणिक्यगणिशिष्यश्रीअनन्तगणिशिष्यपं०दानशेखरगणिसमुद्धतायां भगवतीलघुवृत्तौ
त्रयोदशशतविवरणं सम्पूर्णम् ॥
१४ श० १ उद्देशः
अथ चतुर्दशशतमारभ्यते-तत्र उद्देशकाः, तत्सङ्ग्रहगाथा चेयम्--'चर १ उम्माय २ सरीरे इत्यादि (*७४) तत्र 'चर'त्ति | सूत्रमात्रत्वादस्य चरशब्दोपलक्षितः, चरमः प्रथम उद्देशकः 'उम्माय'त्ति उन्मादार्थत्वादुन्मादो द्वितीयः, शरीरशब्दोपलक्षितत्वा
च्छरीरस्तृतीयः,'पुग्गल'त्ति पुद्गलार्थत्वात्पुद्गलः ४ 'अगणीति अग्निशब्दयुक्तत्वादग्निः ५ किमाहार'त्ति किमाहारा इति प्रश्ननयुक्तत्वात् ६'संसिह'त्ति 'चिरसंसिट्ठो सि गोयम'त्ति वाच्यः ७ 'अंतरे'ति नरकपृथ्वीनामन्तरवाच्यः ८ 'अणगार'त्ति अनगा
| रपदवाच्यः ९ 'केवलि'त्ति केवलिस्वरूपवाच्यः १०, गाथासङ्केपार्थः। चरमं देवावासंति (सू.४९९) चरमम्-अनर्वाग्भागवतिनं | स्थित्यादिभिर्देवावासं सौधर्मादिदेवलोकं व्यतिक्रान्तो-लचिन्तः, तदुपपातहेतुभूतलेश्यापरिणामापेक्षया, परमं-परभागवतिनं स्थित्यादि| भिरेव देवावासं सनत्कुमारादिदेवलोकमसंप्राप्तः-अप्राप्तस्तदुपपातहेतुभूतलेश्यापरिणामापेक्षयैव,इदमुक्तं स्यात्-प्रशस्तेष्वध्यवसायस्थाने| पृत्तरोत्तरेषु वर्तमानः आराद्भागस्थितसौधर्मादिगतदेवस्थित्यादिबन्धयोग्यतामतिकान्तः परभागवर्तिसनत्कुमारादिदेवगतस्थित्यादि|बन्धयोग्यतां चाप्राप्तः, एत्थ णं अंतर'त्ति इह-अवसरे कालं करेज'त्ति म्रियेत यस्तस्य क्वोत्पाद इति प्रश्नः, उत्तरं तु-'जे से तस्थति अथ ये तत्रेति तयोश्चरमदेवावासपरमदेवावासयोः परिपार्वतः समीपे सौधर्मादेरासन्नाः सनत्कुमारादेर्वा तयोर्मध्यभागे, ईशानादौ इत्यर्थः,'तल्लेसा देवावास'त्ति यस्यां लेश्यायां वर्तमानः साधुर्मृतः सा लेश्या येषु ते तल्लेश्या देवावासाः,'तहिं'ति तेषु