SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ UDOLFOLDOGJIGJOLDOGDOCDOE 'छउमत्थिय'त्ति (सू. ४९८ ) छद्मस्थसमुद्घातः 'हनक् हिंसागत्योः" हननं घातः, सम्- एकीभावे, उत्-प्राबल्ये, ततश्च एकीभावेन प्राबल्येन च घातः समुद्घातः, अथ वेन सहैकी भावगमनं १, उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातं गतः तदा वेदनाद्यनुभवज्ञानेन परिणमित एव स्यादिति वेदनाद्यनुभवज्ञानेन सहैकीभावः, प्राबल्येन घातः कथम् ?, उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून् | वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवनयोग्यान् उदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैस्सह संश्लिष्टान् शातयतीत्यर्थः, अतः प्राबल्येन घात इति, अयं च षड्विध इति, तत्र 'वेयणासमुग्धाए' त्ति एकः 'छाउमत्थिए' त्यादिरतिदेशः 'जहा पन्नवणाएं' ति इह पट्त्रिंशत्तमपदे इति शेषः, ते च शेषाः पञ्चैव, 'कसायसमुग्धाए २ मारणं तियसमुग्धाएं ३ वेउन्त्रियसमुग्धाए। ४ तेयगसमुग्धाएं ५ आहारसमुग्धाए' त्ति, तत्र वेदनासमुद्घातः असद्वेद्यकर्माश्रयः कषायसमु० सकपायचारित्रमोहनीयकर्माश्रयः मारणान्तिकसमु० अन्तर्मुहूर्त्तशेषायुः कर्माश्रयः वैकुर्विकाहार कतैजससमुद्घाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीय कर्मपुद्गलशातं करोति, कषायसमु० समुद्धतः कषायपुद्गलशातं मारणान्तिकसमु० समुद्धत आयुःकर्मपुद्गलशातं वैकुर्विकसमु० समुद्धतस्तु जीवप्रदेशान् वपुर्वहिर्निष्काश्य शरीर विष्कम्भबाहल्यमात्रमायामतश्च सङ्ख्येयानि योजनानि दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, सूक्ष्मांश्चादत्ते, यथोक्तं कल्पे 'वेउन्त्रियसमुग्धा| एणं समोहन्नइ समोहणित्ता संखेजाई जोयणाई दंड निसरइ २ अहाबायरे पुग्गले परिसाडेइ अहासुहुमे पोग्गले परियायइ, एवं तैजसाहारकसमुद्घातावप्याख्येयाविति ॥ त्रयोदशशते दशमः ॥ इतिश्रीतपागच्छनायकश्रीलक्ष्मीसागरसूरिशिष्य सुमतिसाधुसूरिशिष्य श्रीहेमविमलसूरिविजयराज्ये १४ श० १ उद्देशः ॥२०५॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy