SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ श्रीभगः लघुवृत्तौ 'केयाघडियं' ति ( सू. ४९७ ) रज्जुप्रान्तबद्धघटिकां गृहीत्वा 'केयाघडिया किच्चहत्थगयाई'ति, केयाघटिकालक्षणं कृत्यं हस्तगतं येषां तानि, तथा 'हिरण्णपेडं' ति हिरण्यस्य मञ्जूषा, 'विदलकडं 'ति, विदलानां वंशार्द्धानां यः कटः स तं 'सुबक' ति वीरणकटं चरमकडंति चर्मव्यूतं वर्धादिकं कंबलकडंति ऊर्णामयकम्बलजीनादि, वग्गुली चर्मपक्षपक्षिविशेषः 'वरगुलिकिचगएणं' ति वल्गुलीलक्षणं कृत्यं कार्यं गतं प्राप्तं येन स तथा तद्रूपतां वल्गुलिरूपतां गतेन - वल्गुलीरूपेणात्मना, वल्गुलीरूपं आत्मानं कृत्वा नभसि व्रजति इत्यर्थः, जलोया - जलौका जलजो द्वीन्द्रियजीवः, 'उब्विहिय'त्ति उर्द्धह्य २ उत्प्रेर्य इत्यर्थः, 'वीयंवीयगसउणे 'त्ति वीजवीजकाख्यः शकुनिः स्यात्, 'दोवे' त्ति द्वावपि पदौ 'समतुरंगे माण'त्ति समौ - तुल्यौ तुरङ्गस्यअश्वस्येव समोत्क्षेपणां कुर्वन् समतुरङ्गायमाणः, समकमुत्पाटयन्नित्यर्थः, 'पक्खिविरालए 'त्ति जीवविशेषः, 'देवेमाणे 'त्ति अतिक्रामन्नित्यर्थः, 'वीईड वीइं'ति कल्लोलात् कल्लोलं 'वेरुलियं जाव'ति यावत्करणात् लोहिताक्षं मसारगलं हंसगब्भमित्यादि, 'बिसं 'ति मृणालं 'अवदालिय'त्ति अवदार्य विदारयित्वा 'मुणालिय'त्ति नलिनीकार्य 'उम्मज्जिय'त्ति कायमुन्मृज्य २ उन्म कृत्वा 'किण्ह'त्ति कृष्णः, 'किव्हा भासे'त्ति कृष्ण इवावभासते कृष्णावभासः कृष्णवर्णोऽञ्जनवत् 'अणुपुच्व सुजायजाव'त्ति यावत्करणादिदं दृश्यम्, अणुपुञ्चसुजायवप्पगंभीरसीयलजला अनुपूर्वेण सुजाता वप्राः - केदारा यत्र गम्भीरशीतलजला 'सहुन्नइयमहुरसरनाइय'त्ति इदमेवं दृश्यम् - 'सुयवरहिणभयणसालकोइलको लक भिंगार ककोडलजीवजीवकनंदीमुहक विल पिंगलखग्गिकारंडवचकवाय कलहंससारस अणेगसउणगणमिहुण वियरिया' सद्दुन्नय'ति तत्र शुकादीनां सारसान्तानां अनेकेषां शकुनिगणानां मिथु नैर्विचरितं शब्दोन्नतिकं च उन्नतशब्दकं मधुरखरं च नादितं लपितं - यस्यां सा तथेति ॥ त्रयोदशशते नवमः ॥ १३ श० १९ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy