________________
श्रीभग० लघुवृत्तौ
इति शेषः, 'से तेण 'मित्यादि निगमनम्, 'नीहारिमे अनिहारिमेत्ति यत्पादपोपगमनमाश्रयस्यैकदेशे विधीयते तन्निर्धारिम कलेवरस्य निर्हरणीयत्वात् यच्च गिरिकन्दरादौ विधीयते तदनिहरिमं कलेवरस्या निर्हरणीयत्वात्, 'अप्पाड कम्मे 'ति शरीरप्रतिकर्मरहितमेव चतुर्विधाहारप्रत्याख्याननिष्पन्नं चेदम्, 'तं चेव' त्तिकरणान्निहरिममनिहरिमं चेति दृश्यम् सम्प्रति कर्मेदमेव स्यादिति त्रयोदशशते सप्तमः ॥
एवं बंधहिउदेस' त्ति (सू. ४९६) एवमनेन प्रश्नोत्तरक्रमेण बन्धस्य- कर्मबन्धस्य स्थितिः, कर्मस्थितिरित्यर्थः, तदर्थ उद्देशको बन्धस्थित्युद्देशकोऽध्येयः, स च प्रज्ञापनात्रयोविंशतितमपदस्य द्वितीयः, इह च वाचनान्तरे सङ्ग्रहणी गाथाऽस्ति सा चेयम् - "पयडीणं भेयठिई बंधो ठिह इंदियाणुवाएणं । केरिसय जहण्णठिई बंधइ उक्कोसियं बावि ॥१॥" अस्याश्चायमर्थः - कर्म्मप्रकृतीनां भेदो वाच्यः, 'कइ णं भंते ! कम्मपयडीओ पण्णत्ताओ, गो०! अड्ड' प्रकृतीनां स्थितिर्वाच्या, 'नाणावरणिअस्स णं भंते ! केवइयं काल ठिई पण्णत्ता, गो०! जहणणेणमंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ' इत्यादि, तथा बन्धो ज्ञानावरणादिकर्मणामिति इन्द्रियानुपातेन वाच्यः, एकेन्द्रियादिकः कः कियतीं बनाति, स चैवम् 'एगिंदिया णं भंते ! जीवा नाणावरणिजस्स किं बंधंति !, गोयमा ! जहणेणं सागरोवमस्स तिष्णि सत्तभागे पलिओवमस्स असंखित्रेणं भागेणं ऊणए, उक्कोसेणं ते चैव पडिपुण्णे बंधइ' इत्यादि, तथा कीदृशो जीवो जघन्यामुत्कृष्टां वा कर्मस्थितिं यनाति, तचेदम्- 'नाणावरणिञ्जस्स णं भंते ! कम्मस्स जहने ठितिबंध के ?, गो० ! अण्णयरे सुहुम संपराए उवसामए वा खवगए वा, एस णं गोयमा ! नाणावरणिजस्स ठिइबंधए तव्वइरित्ते अजहणणे' इत्यादि ॥ ॥ त्रयोदशशतेऽष्टमः ॥
१३ श० ७-८ उ,
॥२०४॥