SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ JCJOG JÓG 30 पुनस्तान्येवानुभूय मरिष्यते तदा तदवधिमरणमुच्यते, तद्द्रव्यापेक्षया पुनस्तद्ग्रहणावधिं यावज्जीवस्य मृतत्वात्, सम्भवति च गृहीतोज्झितानां ग्रहणं, परिणामवैचित्र्यात्, 'आइयंति मरणं ति अत्यन्ते भवमात्यन्तिकं तच्च तत् मरणं च २, यानि हि नारका - द्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते, मृतश्च न पुनस्तान्यनुभूय मरिष्यत इत्येवं यन्मरणं तत्तद्द्द्रव्यापेक्षया अत्यन्तभावित्वादात्यन्तिकमिति, बालमरणम्-अविरतमरणं, पण्डितमरणं - सर्वविरतमरणं । तत्रावीचिकमरणं पञ्चधा द्रव्यादिभेदेन, द्रव्यावीचि - कमरणं च चतुर्द्धा नारकादिभेदात्, तत्र नारकद्रव्यावीचिकमरणमाह- 'जगणं' ति, यद् - यस्माद्धेतोर्नारकद्रव्ये नारकजीवत्वे वर्त्तमाना मरन्तीति योगः, 'नेरइयाउयत्ताए 'त्ति नैरयिकायुष्कतया, गहियाई स्पर्शनतः, 'बद्धाई' बन्धनतः, 'पुट्ठाई' पोषितानि प्रदेशप्रक्षेपतः 'कडाई' विशिष्टानुभागतः 'पडवियाई' स्थितिसम्पादनेन निविट्ठाई जीवप्रदेशेषु 'अभिनिविद्वाई' जीवप्रदेशेष्वभिव्याप्त्या निविष्टानि, अतिगाढतां गतानीत्यर्थः, 'अभिसमण्णागयाई' अभिसमन्वागतानि उदयावलिकायामागतानि द्रव्याणि | 'निरंतरं 'ति निरन्तरम् - अव्यवच्छेदेन, सकलसमयेष्वित्यर्थः, म्रियन्ते विमुञ्चन्तीत्यर्थः, 'इतिकट्ट' ति इतिहेतोर्नारकद्रव्यावीचिकमरणमुच्यत इति एवं जाव भावावीचियमरणे'त्ति, इह यावत्करणात्कालावीचिकमरणं स्यादिति, भवावीचिकमरणमपि द्रष्टव्यम्, तच्चेदं सूत्रम् - 'कालावीइयमरणे णं भंते ! कइविहे पण्णत्ते, गोयमा ! चउन्विहे पण्णत्ते, तं० - नेरइयकालावी मरणे ४, से केणट्टेणं भंते! एवं बुच्चइ-नेरइकालावीइमरणे १, गोयमा ! जण्णं नेरइया नेरइयकाले वट्टमाणे त्यादि, एवं भवावीचिकमरणमप्यध्येयम्, नैरयिकद्रव्यावधिमरणसूत्रे जण्णमित्यादि, एवं चेहाक्षरघटना - नैरयिकद्रव्ये वर्त्तमाना ये नैरयिका यानि द्रव्याणि साम्प्रतं मियन्ते - त्यजन्ति तानि द्रव्याण्यनागतकाले पुनस्ते इति गम्यम्, मरिष्यन्ते -त्यक्ष्यन्तीति यत्तत् नैरयिकद्रव्यावधिमरणमुच्यते BOCHOCHOCLOEDOLDO १३ श० ७ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy