SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती ७ उद्देशः " कायसमयमा औदारिकवतः काया क | कायः, औदारिकशरीरमपेक्ष्य, अजीवे'त्ति अजीवोऽपि कायः उच्छ्वासादिरहितः स्यात् - कार्मणवपुरपेक्ष्य, 'जीवाणवि काए'त्ति |जीवानां सम्बन्धी कायः शरीरं स्यात् ,'अजीवाणवित्ति अजीवानामपि स्थापनार्हदादीनां कायः-शरीरं स्यात्, शरीराकार इत्यर्थः, | 'पुट्विपि काए'त्ति जीवसम्बन्धकालात् पूर्वमपि कायः स्यात् ,यथा भविष्यजीवसम्बन्धं मृतद१रशरीरं 'काइजमाणेऽवि काए'त्ति जीवेन चीयमानोऽपि कायः स्यात् यथा जीवच्छरीरं, कायसमयो-जीवेन कायस्य कायताकरणलक्षणस्तं व्यतिक्रान्तो, यस्स तथा, | सोऽपि काय एव मृतकलेवरवत् , 'पुट्विपि काए भिज्जईत्ति जीवेन कायतया ग्रहणसमयात् पूर्वमपि कायो मधुघटादिन्यायेन द्रव्यकायो भिद्यते, प्रतिक्षणं पुद्गलचयापचयभावात् , 'काइजमाणे वत्ति जीवेन कायीक्रियमाणोऽपि कायो भिद्यते सिकताकणमुष्टिग्रहणवत् पुद्गलानामनुक्षणं परिशाटभावात् 'कायसमयत्ति' कायसमयव्यतिक्रान्तस्य च कायता भूतभावतया घृतघटा|दित्यायेन, भेदश्च पुद्गलानां तत्स्वभावतयेति, अथ कायस्यैव भेदानाह-'ओरालिए' औदारिकवपुरेव पुद्गलस्कन्धरूपत्वात् उपचीयमानत्वात् औदारिककायः, अयं च पर्याप्तकस्यैवेति, 'ओरालियमीसए'त्ति औदारिकमिश्रः कायः कार्मणेन, अपर्याप्तक-- स्यायं, 'वेउविए'त्ति वैक्रियः पर्याप्तकस्य देवादेः,वैक्रियमिश्रः कार्मणेन, अयं चासम्पूर्णवैक्रियशरीरस्य देवादेः 'आहारए'त्ति आहारकः आहारकशरीरनिवृतौ 'आहारमीस'त्ति आहारकपरित्यागेनौदारिककरणायोद्यतस्य आहारकमिश्रः स्यात् , मिश्रता पुनरौदारिकेणेति,'कम्मए'त्ति विग्रहगतौ केवलिसमुद्घाते वा कार्मणः स्यादिति ॥ 'आवीइमरणे'त्ति (सू.४९५) आ समन्ताद्वीचयः प्रतिसमयमनुभूयमानायुपोऽपरापरायुर्दलिकोदयात् पूर्वपूर्वायुर्दलिकविच्युतिलक्षणा अवस्था यस्मिन् तदावीचिकं 'ओहिमरणं'ति अवधिः-मर्यादा, ततश्चावधिना मरणं अवधिमरणं, यानि हि नारकादिभवनिबन्धनतया आयुःकर्मदलिकान्यनुभूय म्रियते यदि ॥२० ३॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy