________________
श्रीभग० लघुवृत्तौ
खल्वादानविसर्गप्रयत्नाभ्यां भिच्चैव निसृजति, तानि च सूक्ष्मत्वात् बहुत्वाच्च अनन्तगुणवृद्ध्या वर्द्धमानानि पसु दिक्षु लोकान्तमाप्नुवन्ति, अत्र च यस्यामवस्थायां शब्दपरिणामस्तस्यां भाष्यमाणता अवसेयेति, 'नो भासासमयविइक्कत 'त्ति परित्यक्तभाषापरिणामेत्यर्थः, वक्तृप्रयत्नस्य तदानीं निवृत्तत्वादिति भावः । अथ मनोनिरूपणायाह-'आया भंते! मणो त्ति (सू. ४९३) एतत्सूत्राणि भाषासूत्रवत् ज्ञेयानि, केवलमिह मनो- मनोद्रव्यसमुदयो मननोपकारी मनः पर्याप्तिनामकर्मोदयसम्पाद्यो, भेदश्च तेषां विदलनमात्रमिति ॥ अथ कायनिरूपणायाह - (सू. ४९४) आत्मा कायः, कायेन कृतस्यानुभवनात् न ह्यन्येन कृतमन्योऽनुभवति, अकृतागमप्रसङ्गात्, अथान्य, आत्मनः कायः कायैकदेशच्छेदेऽपि संवेदनस्य सम्पूर्णत्वेनाभ्युपगमादिति प्रश्नः, उत्तरं तु आत्माऽपि कायः कथञ्चित्तदैक्यात् क्षीरनीरवत्, अग्ययः पिण्डवत्, अत एव कायस्पर्शे आत्मनः संवेदनं स्यात्, अत एव कायेन कृतमात्मना भवान्तरे वेद्यते, अत्यन्ताभेदे चाकृतागमप्रसङ्ग इति, 'अण्णेऽवि' काए'ति अत्यन्ताभेदे हि शरीरांशच्छेदे जीवांशच्छेदप्रसङ्गः, तथा च संवेदनासम्पूर्णता स्यात्, तथा वपुर्दाहे आत्मनोऽपि दाहप्रसङ्गेन परलोकाभावप्रसङ्ग इत्यतः कथञ्चिदात्मनोऽन्योऽपि कायः, अन्यैस्तु कार्मणकायमाश्रित्य आत्मा काय इति व्याख्यातं, कार्मणकायस्य संसार्यात्मनश्च परस्परांव्यभिचरितत्वेन एक| स्वरूपत्वात् 'अण्णेऽवि काए 'त्ति औदारिकादिकायापेक्षया जीवादन्यः कायः, तद्विमोचनेन तदभेदेऽपि सिद्धिरिति, 'रूविंपि काए' त्तिं रूप्यपि कायः, औदारिकादिकायस्थूलरूपापेक्षया, अरूप्यपि कायः, कार्मणकायस्यातिसूक्ष्मरूपित्वेनारूपित्वविवक्षणात्, 'एवं एक्केकपुच्छ' त्ति प्रागुक्तप्रकारेण एकैकसूत्रे पृच्छा विधेया, तद्यथा - 'सच्चित्ते भंते ! काए अचित्ते काए'त्ति, अत्रोत्तरम् - सच्चित्तोऽपि कायः, जीवदवस्थयां चैतन्ययुक्तत्वात्, अचित्तोऽपि कायः मृतावस्थायां चैतन्याभावात्, जीवोऽपि विवक्षात उच्छ्रासादिप्राणयुक्तोऽपि स्यात्
2000 1000 10000 H
१३ श० |७ उद्देशः