________________
श्रीभगम
१३ श.
उद्देशः
लधुपा
मानत्वात् , तथाविधलेष्वादिवत् , अचेतनत्वाच्चाकाशवत् , यच्चोक्तम्-जीवेन व्यापार्यमाणत्वाजीवः स्यात् ज्ञानवत् तदनैकान्तिकं, जीवव्यापारणस्य जीवादत्यन्तं भिन्नखरूपेऽपि दात्रादौ दर्शनादिति । 'रूवि भंते ! भास'त्ति रूपिणी भदन्त ! भाषा श्रोत्रस्या
गोरया- नुग्रहोपघातकारित्वात् तथाविधकर्णाभरणादिवत् , अथारूपिणी भाषा, चक्षुषाऽनुपलभ्यमानत्वात् धर्मास्तिकायादिवदिति शंकातः प्रश्नः, उत्तरं तु रूपिणी भाषा, यच्च चक्षुरग्राह्यत्वमरूपित्वसाधनायोक्तं तदनैकान्तिकं, परमाणुवायुपिशाचादीनां रूपवतामपि चक्षुग्राह्यत्वेनाभिमतत्वादिति । 'सचित्ते'त्ति उत्तरं तु 'नो सचित्ता' जीवनिसृष्टपुद्गलसंहतिरूपत्वात् तथाविधलेष्ठुवंत् । तथा 'जीवा भंते! भास'त्ति जीवन्तीति जीवाः-प्राणधारणस्वरूपा भाषा उत तद्विलक्षणेति प्रश्नः, अत्रोत्तरम्-'नो जीवा'-उच्छ्वासादिप्राणानां तस्या अभावादिति, इह कश्चिदाह-अपौरुषेयी वेदभाषा, तन्मतं मनस्याधायाह-'जीवाणं'ति उत्तरं तु जीवानां भाषा, | वर्णानां ताल्लादिव्यापारजन्यत्वात् , ताल्वादिव्यापारस्य च जीवाश्रितत्वात् , यद्यपि चाजीवेभ्यश्शब्द उत्पद्यते तथापि नासौ भाषा; | पर्याप्तिजस्यैव शब्दस्य भाषात्वेनाभिमतत्वादिति । तथा 'पुब्धि'ति अत्रोत्तरम्-नो पूर्व भाषणात् भाषा स्यात् , मृत्पिण्डावस्थायां. | घट इव, भाष्यमाणा निसर्गावस्थायां वर्तमाना भाषा, घटावस्थायां घटस्वरूपमित्र, नो-नैव भाषासमयव्यतिक्रान्ता, भाषासमयो| निसृज्यमानावस्थातो यावद्भाषापरिणामसमयः तं व्यतिक्रान्ता या सा भाषा स्यात् , घटसमयातिक्रान्तघटवत् ,कपालावस्थ इत्यर्थः। | 'पुब्बि भंते'त्ति अत्रोत्तरं-नो-नैव प्राग् निसर्गसमयाद् भाषा द्रव्यभेदेन भिद्यते, भाष्यमाणा भाषा भिद्यते, अयमत्राभिप्रायः-इह
कश्चिन्मन्दप्रयत्नो वक्ता स्यात् , स चामिन्नान्येव शब्दद्रव्याणि निसृजति, तानि च निसृष्टान्यसङ्ख्येयात्मकत्वात् परिस्थूरत्वाच | विभज्यते, विभज्यमानानि चासङ्ख्येयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयत्नः स्यात्, स
mardana டயாபரா பயாடி பயமாம் பங்காயம் inpur பாடிப்பாடாயமாயம் Trmilimmonthummamathurtamniinshim timmunn.muthumihitrahmir R uiraluminine
२०२।।