SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ १.७ श्रीभग येषु तानि धारवारिकाणि लयनानि 'आसयंति' आश्रयन्ते-ईषद् भजन्ते 'सयंति' बहु २ भजन्ते, अथवा आसयंति-ईषत् खपन्ति, लघुवृत्तौ । 'सयंति' बहु २ स्वपंति, वसहिति वासमुपयान्ति 'एवमेव'त्ति एवमेव नराणामुपकारिकालयनवचमरस्य ३ चमरचंच आवासो, |न निवासस्थानं केवलं, किन्तु 'किड्डारत्ति'त्ति क्रीडाया रतिः-आनन्दःक्रीडारतिः, अथवा क्रीडारती, सा ते वा प्रत्ययो-निमित्तं । यत्र तत् क्रीडारतिप्रत्ययं तत्रागच्छन्ति ॥ 'सिंधुसौवीरेसु'त्ति (सू. (४९०) सिन्धुनद्यासन्नाः सौवीरा देशाः, 'वीयभए'त्ति विगता ईतयो-भयानि यत्र तद्वीतभयं, विदर्भेति केचित् , 'विइण्णछत्तचामरं ति वित्तीर्णच्छत्रचामररूपवालव्यजनिकानां तेषां,, |'पउमावईओ देविओत्ति उदाईराज्ञा मोहात् गृहीतप्रव्रज्याऽपि राजभुवने प्रभावती वतिनी स्थापिता, प्रतिज्ञा ग्राहिता-त्वयाऽहं प्रतिबोध्य इति, षण्मासं यावद्दीक्षामनुपाल्य सा देवत्वं गता, यया देवत्वं गतया राजा प्रतिबोधितः, तत् प्रभावतीमृतेरनंतरं पद्मावतीप्रभृतिदेव्यः, 'अप्पत्तिएणं'ति अप्रीतिकेन-अग्रीतिस्वभावेन, मनसो विकारो मानसिकं न बहिरुपलक्ष्यमाणविकारं यत्तन्मनोमानसिकं तेन, 'सभंडमत्तोत्ति स्वां-स्वकीयां भाण्डमात्रां-भाजनरूपपरिच्छदं उपकरणं शय्यादि गृहीत्वेत्यर्थः, 'समणुबद्ध'त्ति अव्यच्छिन्नवैरिभावः, 'नरयपरिसामंतेसु'त्ति नरकपरिपार्वतः 'आयावा असुरकुमार'त्ति 'आयाव'त्ति असुर| कुमारदेव विशेषाः, विशेषतस्तु नावगम्यन्त इति ॥त्रयोदशशते षष्ठः॥ __ अथ सप्तमे 'आया भंतेत्ति (सू. ४९२) आत्मा-जीवो भाषाखभावो, भाषेत्यर्थः, यतो जीवेन व्यापार्यते जीवस्य च बन्धमोक्षार्था स्यात् ततो जीवधर्मत्वान्जीव इति व्यपदेशार्हा ज्ञानवदिति, अथ अन्या भाषा अजीवस्वरूपा, श्रोत्रेन्द्रियग्राह्यत्वेन मूर्ततया|ऽऽत्मनो विलक्षणत्वादिति शङ्कातः प्रश्नोत्रोत्तरं-'नो आया भासत्ति आत्मरूपा नासौस्यात् , पुद्गलमयत्वात् , आत्मना च मुच्य
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy