________________
श्रीभग०
१३ श०
लघुवृत्ती
படி வாயால்
'सव्वविग्गहिए'त्ति विग्रहो-चक्रं वंकमित्यर्थः तदस्यास्तीति विग्रहिकः, सर्वथा विग्रहिकः सर्ववैग्रहिकः, सर्वसंक्षिप्त इत्यर्थः, 'उवरिमहेडिल्लेसु'त्ति उपरितनो यमवधीकृत्य ऊर्ध्व प्रतरवृद्धिर्जाता, (एवं यतोऽधः सोऽधस्तनः) ततस्तयोरुपरितनाधस्तनयोः क्षुल्लकप्रतरयोः शेषापेक्षया लघुतरयोः रज्जुप्रमाणायामविष्कम्भयोस्तिर्यग्लोकमध्यभागवत्तिनोः 'एत्थ णं'ति एतयोः प्रज्ञापकेनोप|दर्श्यमानतया प्रत्यक्षयोः “विग्गहविग्गहिए'त्ति विग्रहो-वक्रं तद्युक्तो विग्रहः-शरीरं यस्यास्ति स विग्रहविग्रहिकः,'विग्गहकं
डए'त्ति विग्रहो-चक्रं कण्डकं-अवयवो, विग्रहरूपं कण्डकं विग्रहकण्डकं तत्र, ब्रह्मलोककूपर इत्यर्थः, यत्र प्रदेशवृद्ध्या हान्या वा | वक्र स्यात् तद्विग्रहकण्डकं, तच्च प्रायो लोकान्तेष्वस्तीति । अथ लोकसंस्थानद्वारम्-'सव्वत्थोवे तिरियलोएत्ति (सू. ४८६) | अष्टादशयोजनशतायामत्वात् , 'उद्धलोए असंखिज्जे'त्ति किंचिदूनसप्तरज्जूच्छ्रितत्वात् ।। त्रयोदशशते चतुर्थः॥
पंचमे 'पढमो नेरइय उद्देसओ'त्ति (सू . ४८७) अयं च प्रज्ञापनायामष्टाविंशतितमस्याहारपदस्य प्रथमः, स चैवम्-नेरइयाणं | भंते ! किं सचित्ताहारा अचित्ताहारा मीसाहारा ?, गोयमा ! नो सचित्ताहारा, अचित्ताहारा, नो मीसाहारा, एवं असुरकुमारे'त्यादि। ॥त्रयोदशशते पञ्चमः॥ . 'गंगेए'त्ति नवमशत३२उद्देशकाभिहिते 'दो दंडग'त्ति उत्पत्तिदण्डकः उद्वर्तनादण्डकश्च । 'सभाविहण'त्ति (सू. ४८९) सुधर्माद्याः पञ्च सभा न वाच्याः, कियरं यावदियमिह चमरचञ्चाराजधानीवक्तव्यता भणितव्येत्याह-'जाव चत्तारि पासायपंतीओ'त्ति ताश्च प्रारदर्शिता एव, उवयारियलेणाइ वत्ति उपकारिकालयनानि-प्रासादादिपीठकल्पानि 'उज्जाणिय'त्ति उद्यानगतजनानामुपकारकगृहाणि, नगरप्रवेशगृहाणि वा 'णिजाणियति नगरनिर्गमगृहाणि 'धारवारियत्ति धाराप्रधानं वारि-जलं
தாமதமாகலாயகராய
२०१॥