________________
श्रीभग०
लघुवृत्तौ
| केवइया अहम्मत्थिकायप्प ०१, सिय एको सिय दुण्णि सिय तिष्णि सिय चत्तारि इत्यादि, भावना चास्य प्रागिव, 'से सेहिं जहेब दुहं 'ति शेषेषु - जीवास्तिकायादिषु त्रिषु सूत्रेषु पुद्गलप्रदेशचतुष्टय चिन्तायां तथा वाच्यं यथा तेष्वेव पुद्गलप्रदेशद्वयावगाहचिन्तायामुक्तं तच्चैवम्- ' जत्थ णं भंते ! चत्तारि पुग्गलत्थिकाय परसा अवगाढा तत्थ केवइया जीवत्थिकायप्पदेसा ओगाढा ?, अनंते' त्यादि, 'जहा असंखेज्जा एवं अनंतावित्ति अश्यायं भावार्थ:- त्रिपु ' जत्थ णं भंते ! अनंता पुग्गलत्थिकायप्पएसा ओगाढा तत्थ केवइया धम्मत्थिकायप्पएसा ओगाढा ? सिय एको सिय दुण्णि सिय तिण्णि जाव असंखेजा' एतावदेवा ध्येयं, 'न तु सिय अनंत त्ति, धर्मास्तिकायाधर्मास्तिकाय लोकाकाशप्रदेशानामनन्तानामभावादिति । अथ प्रकारान्तरेणावगाहद्वार मेवाह- 'जत्थ णमित्यादि, धर्मास्तिकायशब्देन समस्त तत्प्रदेश सङ्ग्रहात् प्रदेशान्तराणामभावादुच्यते यत्र धर्मास्तिकायोऽवगाढः तत्र नास्त्येकोऽपि तत्प्रदेशोऽवगाढ इति १, अधर्मास्तिकायाकाशास्तिकाययोरसख्येयाः प्रदेशा अवगाढा:, असख्येयप्रदेशत्वादधर्मास्तिकायलोकाकाशयोः, जीवसूत्रे चानन्तास्तत्प्रदेशाः, अनन्तप्रदेशत्वाञ्जीवास्तिकायस्य, पुद्गलास्तिकायाद्धासूत्रयोरप्येवम्, एतदेवाह - ' एवं जाव अद्धासमय "त्ति ।। अथैकस्य पृथ्व्यादिजीवस्य स्थाने कियन्तः पृथ्व्यादिजीवा अवगाढा इत्येवमर्थं 'जीवमोगाढ'त्ति द्वारमाह-- ' जत्थ णं भंते ! एगे त्ति (सू. ४८३) एकपृथ्वी का विकावगाहेऽसङ्ख्येयाः प्रत्येकं पृथ्वीकायिकादयश्चत्वारः सूक्ष्मा अवगाढा:, तदाह - ' जत्थ एगो तत्थ नियमा असंखिज' त्ति, वनस्पतयस्त्वनन्ता इति । अथास्तिकाय प्रदेशनिषदनद्वारं, तत्र च 'एयंसि णमित्यादि (सू ४८४) एतस्मिन् णमिति वाक्यालङ्कारे 'चक्किय'त्ति शक्नुयात् कश्चित्पुमान् । अथ बहुसमेति द्वारम् -'बहुसमेत्ति (सू. ४८५) अन्त्यन्तं समः, लोको हि क्वचिद्वर्द्धमानः क्वचिद्धीयमानः अतस्तन्निषेधाद् बहुसमो, वृद्धिहानिरहित इत्यर्थः,
JULJULJ
OLDOLJOLTOLLOLBOLOG
१३. श०
४ उद्देशः