________________
marpnumIOR MORE
श्रीभगमस्तिकायप्रदेशस्य विद्यमानत्वादाह-'एक्को चेवित्ति, एवमाकाशास्तिकायस्याप्येक एव, जीवास्तिकायपुद्गलास्तिकाययोः पुनरनन्ताः | १३ श. लघुवृत्ती
प्रदेशाः एकैकस्य धर्मास्तिकायप्रदेशस्य स्थाने सन्ति अतः तैः प्रत्येकमनन्तैर्व्याप्तोऽसाविति उक्तं 'अगंत'त्ति, अद्धासमयास्तु मनु- Pउद्देशः ध्यलोक एव सन्ति, न परतः, अतो धर्मास्तिकायप्रदेशे तेषामवगाहः अस्ति नास्ति च, यत्रास्ति तत्रानन्तानां, भावना प्राग्वत् , एतदेवाह-'अद्धासमए'त्यादि ६ । 'जत्थ ण'मित्यादीन्यधर्मास्तिकायसूत्राणि ६ धर्मास्तिकायसूत्राणीव वाच्यानि, आकाशा-1 स्तिकायसूत्रेषु 'सिय ओगाढो सिय न ओगाढो' लोकाकाशैकप्रदेशे यदा द्वथणुकस्कन्धोऽवगाढः स्यात् तदा तत्र धर्मास्तिकायप्रदेश एक एव, यदा तु द्वयोराकाशप्रदेशयोरसाववगाढः स्यात् तदा तत्र द्वौ धर्मप्रदेशाववगाढौ स्यातामित्येवमवगाहनानुसारेण धर्माकाशास्तिकाययोरपि स्यादेकः स्यात् द्वाविति भावनीयं, 'सेसं जहा धम्मत्थिकायस्स'त्ति शेषमित्युक्तापेक्षया जीवास्तिकायपुद्| गलास्तिकायाद्धासमयलक्षणं त्रयं यथा धर्मास्तिकायप्रदेशवक्तव्यतायामुक्तं तथा पुद्गलप्रदेशद्वयवक्तव्यतायामपि, पुद्गलप्रदेशद्वय स्थाने तदीया अनन्ताः प्रदेशा अवगाढा इत्यर्थः। पुद्गलप्रदेशत्रयसूत्रेषु 'सिय एक्को'इत्यादि, त्रयोऽप्यणव एकत्रावगाढास्तदा तत्रैको धर्मास्तिकायप्रदेशोऽवगाढो, यदा तु द्वयोः १, २, तदा द्वाववगाढौ, यदा त्रिषु १, १,१, त्रय इति, एवमधर्मास्तिकायाकाशास्तिकाययोर्वाच्यं, 'सेसं जहेव दोण्हंति शेष जीवपुद्गलाद्धासमयाश्रितं सूत्रत्रयं यथैव द्वयोः पुद्गलप्रदेशयोरखगाहचिन्तायामधीतं तथैव पुद्गलप्रदेशत्रयचिन्तायामप्यध्येयं, पुद्गलप्रदेशत्रयस्थानेऽनन्ता जीवप्रदेशावगाढा इत्येवमध्येयमित्यर्थः, आइल्लेहिं तिहिं अस्थिकाएहिं ति यथा पुद्गलप्रदेशत्रयावगाहचिन्तायां धर्मास्तिकायादिसूत्रत्रये एकैकः प्रदेशो वृद्धिं नीतः एवं पुद्गलप्रदेशचतुष्टयाद्यवगाहचिन्तायामपि एकैकस्तत्र वर्द्धनीयः, तथाहि-जत्थ णं भंते चत्तारि पुग्गलत्थिकायप्पएसा अवगाढा?
Meroin mom mammiuminiummelimminuinemiasi m maharathitr methumiliature Hatun immunmanimur
A ur Rull
२००॥