SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीभग १३० ४ उद्देशः लघुवृत्तौ तथा दिक्त्रये तत्रैव वर्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टस्स पडिः, यश्चाध उपरि च दिक्चतुष्के तत्रैव वर्तमानेन धर्मास्तिकाय- । प्रदेशेन स्पृष्टस्स सप्तभिर्धर्मास्तिकायप्रदेशैः स्पृष्टः स्यादिति १, एवमधर्मास्तिकायप्रदेशैरपि २, 'छहिंति एकस्य लोकाकाशप्रदेश- स्यालोकाकाशप्रदेशस्य वा पदिग्व्यवस्थितैरेव स्पर्शनात् पड्भिरित्युक्तं ३, जीवास्तिकायसूत्रे सिय पुढेत्ति यद्यसौ लोकाकाशप्रदेशो, विवक्षितः स्पृष्टः, नो पुढेत्ति यद्यसावलोकाकाशप्रदेशविशेषस्तदान स्पृष्टः, जीवानां तत्राभावादिति, एवं पुद्गलाद्धाप्रदेशैः६॥'एगे भंते ! जीवत्थिति (सू. ४८२) जघन्यपदे लोकान्तकोणलक्षणे सर्वाल्पत्वात् तत्र स्पर्शकप्रदेशानां, चतुभिरिति, कथं ?, अध उपरि वा एको, द्वौ च दिशोरेकस्तु यत्र जीवप्रदेश एवावगाढ इत्येवं, एकश्च जीवास्तिकायप्रदेश एकत्राकाशप्रदेशादौ केवलिसमुद्घात एव लभ्यत इति, 'सत्तहिंति प्राग्वत् ५ । 'एवं अहम्मे त्यादि प्रागुतानुसारेण भावनीयं ६ । धर्मास्तिकायादीनां. ४ पुद्गलास्तिकायस्य चैकैकस्पर्शनोक्ता, अथ तस्यैव द्विप्रदेशादिस्कन्धानां तां दर्शयन्नाह-'दो भंते'त्ति, इह चूर्णिव्याख्यानमिदम्-लोकान्ते द्विप्रदेशिकस्कन्धः एकप्रदेशसमवगाढः, स च प्रतिद्रव्यावगाहं प्रदेश इति नयमताश्रयणेनावगाहप्रदेशस्यैकस्यापि भिन्नत्वात् द्वाभ्यां स्पृष्टः, तत्र यस्तस्योपरि अधस्ताद्वा प्रदेशस्तस्यापि पुद्गलद्वयस्पर्शनेन नयमतादेव भेदात् द्वाभ्यां, तथा पार्श्वप्रदेशावेकैकमणुं स्पृशतः, परस्परव्यवहितत्वात् , इत्येवं जघन्यपदे पमिःधर्मास्तिकायप्रदेशैद्वर्थणुकस्कन्धः स्पृश्यते, नयमतानङ्गीकरणे तु चतुभिरेव द्वयणुकस्य जघन्यतः स्पर्शना स्यात् , वृत्तिकृता त्वेवम्-इह यद्विन्दुद्वयं तत्परमाणुद्वयमिति ज्ञेयं, तत्र चार्वाचीनः परमाणुर्द्धर्मास्तिकायप्रदेशेनार्वाकस्थितेन स्पृष्टः, परभागवत्ती च परतः स्थितेन, एवं द्वौ, तथा ययोः प्रदेशयोर्मध्ये परमाणू स्थाप्येते तयोरग्रेतनाभ्यां प्रदेशाभ्यां तौ स्पृष्टावेकेनैको द्वितीयेन च १९८॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy