SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती १३ श० ४ उद्देश: कस्य धर्मास्तिकायप्रदेशस्वातिस्तोकैरन्यैः स्पर्शना स्यात् , तच भूम्यासनापवरककोणदेशप्राय: इहोपरितनेनैकेन द्वाभ्यां च पार्श्वत |एको विवक्षितप्रदेशः स्पृष्ट इति जघन्येन त्रिमिरिति, 'उक्कोसेणं'ति 'छहिं'ति विवक्षितस्यैक उपर्येकोऽधश्चत्वारो दिक्षु इत्येवं पमिरियं प्रतरमध्ये, स्थापना | 'जहण्णपदे चउहिं'ति धर्मास्तिकायप्रदेशो जघन्यपदे अधर्मास्तिकायप्रदेशैश्चतुभिः स्पृष्ट इति, कथं ?, तथैव त्रयः चतुर्थो ।। धर्मास्तिकायप्रदेशस्थानस्थित एव १ उत्कृष्टपदे सप्तभिरिति, कथं', पद् दिपढ़े सप्तमस्तु धर्मास्तिकायप्रदेशस्थ एवेति २, आकाशप्रदेशैस्सप्तभिरेव, लोकान्तेऽपि अलोकान्तेऽपि अलोकाकाशप्रदेशानां विद्यमानत्वात् |३, 'केवइएहिं जीवस्थिकाए'त्यादि, अणंतेहिं'ति अनन्तैरनन्तजीवसत्कानामनन्तानां प्रदेशानां तत्रैकधर्मास्तिकायप्रदेशे पार्श्वतश्च दिक्त्रयादौ विद्यमानत्वादिति ४, एवं पुद्गलास्तिकायप्रदेशैरपि ५ केवइएहिं अद्धासमएहिंति अद्धासमयः समयक्षेत्र एव, न परतः, अतः स्यात् स्पृष्टः स्यान्नेति, 'जइ पुट्ठत्ति नियमं अणतेहिं ति अनादित्वादद्धासमयानां अथवा वर्तमानसमयालिङ्गितान्यनन्तानि द्रव्याण्यनन्ता एव समया इत्यनन्तैस्तैः स्पृष्ट इत्युच्यते इति । अधर्मास्तिकायप्रदेशस्य शेषाणां प्रदेशैः स्पर्शना धर्मास्तिकायप्रदेशस्पर्शनानुसारेणावसेया ६ । 'एगेभंते!आगासत्थिकायपदेसे'इत्यादि 'सिय पुढे'त्ति लोकमाश्रित्य, नो पुढेत्ति अलोकमाश्रित्य, जइ पुढे यदि स्पृष्टस्तदा जघन्यपदे एकेन धर्मास्तिकायप्रदेशेन स्पृष्टः, कथं, एवंविधलोकान्तवर्तिना धर्मास्तिकायैकप्रदेशेन शेषधर्मास्तिकायप्रदेशेभ्यो निर्गतेनैकाग्रभागवर्त्यलोकाकाशः स्पृष्टः, वक्र-|| गतस्त्वसौ द्वाभ्यां,यस्य चालोकाकाशबन्धकप्रदेशस्याग्रतोऽधस्तादुपरि च धर्मास्तिकायप्रदेशेन तदवगाढेनान्येन चोपरिवत्तिनाऽधोवत्तिना च द्वाभ्यां स्पृष्ट इत्येवं चतुर्भिः, यश्चाध उपरि च तथा दिग्द्वये तत्रैव च वर्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स पश्चभिः, यः पुनरध उपरि च
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy