SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती १३ श० ४ उद्देशः 'अलोगं'ति,'सगडुद्धिसंठिय'ति रुचके तुण्डं कल्पनीयं आदौ सङ्कीर्णत्वात् , ततः उत्तरोत्तरविस्तीर्णत्वादिति, एयप्पएसविच्छिण्ण'त्ति, कथं ?, अत आह-अणुत्तरत्ति वृद्धिवर्जिता यत इति ॥ प्रवर्त्तनद्वारे 'आगमणगमणे'इत्यादि (स.४८०) आगमनगमने प्रतीते, भाषा-व्यक्तवचनं, भाषि व्यक्तायां वाचि' इति धातुपाठात् , उन्मेषः-अक्षिव्यापारविशेषः, मनोयोगादयः प्रतीता एव, इह च मनोयोगादयः सामान्यरूपाः आगमनादयस्तु तद्विशेषा इति भेदेनोपात्ताः, 'जे यावण्णे तहप्पगार'त्ति ये चाप्यन्ये आगमनादिभ्योऽपरे तथाप्रकारा-आगमनादिसदृशाः भ्रमणवल्गनादयः 'चला भाव'त्ति चलस्वभावाःपर्यायाः सर्वे ते धर्मास्तिकाये सति प्रवर्तते, कुत इत्याह गइलक्खणे णं धम्मत्ति, मणस्सएगत्तीति मनसश्च अनेकत्वस्यैकत्वभवनमेकत्वीभावस्तस्य यत् करणं तत्तथा, 'आगासंस्थिति 'जीवदव्वाण'न्ति जीवद्रव्याणां चाजीवद्रव्याणां च भाजनभूतं, अनेनेदमुक्तं स्यात्-एतस्मिन् सति जीवानामवगाहः प्रवर्तते, 'एगेणवी'त्यादि (*७४) एकेन परमाण्वादिना 'से'त्ति असौ, आकाशप्रदेश इति गम्यते, पूर्णोभृतः, द्वाभ्यामपि ताभ्यामसौ पूर्णः, कथमेतद् ?, उच्यते-परिणामभेदात् यथा अपवरकाकाशमेकप्रदीपप्रभावृन्देनापि पूर्यते द्विती| यमपि तत्र माति यावच्छतमपि तेषां तत्र माति, तथौषधविशेषापादितपरिणामादेकत्र पारदकर्षे सुवर्णकर्षशतं प्रविशति, पारदकपीभूतं च सदोषधसामर्थ्यात् पुनः पारदस्य कर्षः सुवर्णस्य च कर्षशतं स्यात् , विचित्रत्वात् पुद्गलपरिणामस्वेति, 'अवगाहणा| लक्खण'त्ति इहावगाहना-आश्रयभावः, 'जीवत्थिकाएणं'ति जीवास्तिकायनेति, अन्तर्भूतभावप्रत्ययत्वात् जीवास्तिकायत्वेन, जीवतयेत्यर्थः, 'पोग्गलत्थिकाएणं'ति इहौदारिकादिवपुषां श्रोत्रेन्द्रियादीनां मनोयोगान्तानां आनप्राणानां च ग्रहणं प्रवर्तत इति, पुद्गलमयत्वादौदारिकादीनामिति । अस्तिकायप्रदेशस्पर्शनद्वारे 'जहण्णपदे तिहिंति जघन्यपदं लोकान्तनिष्कुटरूपं यत्रै P N vaiswimmuniumma
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy