SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ शतान्यतिक्रम्याधो लोकः स्यात् लोकान्तं यावत् स च सातिरेकाः सप्त रजवः, तन्मध्यभागचतुर्थ्याः पञ्चम्याश्च यदवकाशान्तरं तस्य सातिरेकमर्द्धमवगाह्य स्यादिति, तथा रुचकस्योपरि ९ योजनशतानि अतिक्रम्योर्ध्वलोको व्यपदिश्यते लोकान्तं यावत्, सं च सप्त रञ्जयः किञ्चिन्यूनाः, तस्य मध्यभागमाह - ' उप्पि सणकुमार माहिंदाणं कप्पाण' मिति, तथा 'उवरि महिट्ठिल्लेसु खुडगपयरेसु' त्ति लोकस्य वज्रमध्यत्वाद्रत्नप्रभाया रत्नकाण्डे सर्वक्षुल्लकप्रतरद्वयमस्ति, तयोश्चोपरितनः स प्रतर उच्यते यत आरभ्य लोकस्य उपरिमुखा वृद्धि:, 'हेडिल्ल'त्ति अघस्तनप्रदेशः यत आरभ्य लोकस्य अधोमुखा वृद्धिः, तयोरुपरितनाधस्तनयोः 'खुड्डुगपयरेसु' ति क्षुल्लकप्रतरयोः सर्वलघु देशप्रतरयोः 'एत्थ णं' ति प्रज्ञाप केनोपायतः प्रदर्श्यमाने तिर्यग्लोकमध्येऽष्टप्रदेशिको रुचकः प्रज्ञप्तः, यश्च तिर्यग्लोकमध्ये उक्तः स सामर्थ्यात् तिर्यग्लोकमध्यं स्यादित्येवंभूतोऽसावष्टप्रदेशिको रुचक इत्याह- 'जओ णं इमाओ इत्यादि, तस्यैवं स्थापना || दिविदिग्प्रवहद्वारे 'किमाइय'त्ति (सू. ४७९) क आदिः - प्रथमो यस्यास्सा किमादिका, 'किं पवह 'त्ति प्रवहति-प्रवर्त्तते अस्मादिति प्रवहः, कः प्रवहो यस्यास्सा (किंवा ), 'कतिपएसाइय'त्ति कति प्रदेशा आदिर्यस्यास्सा कतिप्रदेशादिका, 'कइपएसउत्तरति कति प्रदेशा उत्तरे - वृद्धौ यस्यास्सा तथा 'लोगं पडुच मुरजसंठिय'ति लोकान्तस्य परिमण्डलाकारत्वेन मुरजसंस्थानता दिशः स्यात्, ततश्च लोकान्तं प्रतीत्य मुरजसंस्थितेत्युक्तं, एतस्य चं पूर्वां दिशमाश्रित्य चूर्णिकारकृतेयं भावना - 'पुव्युत्तराए पदेसहाणी तहा दाहिणपुव्वाए रुयगदेसे मुरजहेडं दिसिअंते चउपदेसा ददुव्वा, मज्झे य तुंडं हवइति एतस्य स्थापना, ०० ००० ०००००० ००००० ०००००००००० १३ श० ४ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy