________________
श्रीभगः लघुवृत्ती
तओ पच्छा विउव्वणया ?, हंता गोयमा इत्यादि, 'परियाइयण'त्ति ततः पर्यापानं, अङ्गप्रत्यङ्गैः समन्तादापानमित्यर्थः, परिणामणय'त्ति आपीतस्य-उपात्तस्य परिणतिरिन्द्रियादिभागेन, परियारण'त्ति ततःशब्दादिविषयोपभोग इत्यर्थः, विउवणय'त्ति ततो विक्रिया नानारूपा इत्यर्थः ॥ त्रयोदशशते तृतीयः॥
इह द्वारगाथे यथा-"नेरइय१ फास २ पणिही ३ निरयंते चे ४ लोयमझमि ५। दिसिविदिसाण य पवहा ६ पवत्तणं नस्थि। काएहिं७॥१॥अत्थी पएसफुसणा ८ ओगाहणया य जीवमोगाढा ९ अस्थिपएस १० निसीयण ११ बहुस्समे १२ लोगसंठागे १३ ॥२॥"त्ति,अनयोरर्थ उद्देशकाधिगमावगम्य एवेति, महंततराए चेव'त्ति(मू.४७४)आयामतः 'विच्छिण्ण'त्ति विष्कम्भतः महो| वास'त्ति अवकाशो-बहूनां विवक्षितद्रव्याणां अवस्थानयोग्यं क्षेत्रं, महानवकाशं येषु ते, अतिशयेन महावकाशा महावकाशतराः, ते | जनव्याप्ताः स्युरित्यत उच्यते-'महापइरिकतराए'त्ति महत् प्रतिरिक्तं-विजनमतिशयेन येपुते तथा 'णोतहा महप्पवेसण'त्ति
नो-नैव तथा-तेन प्रकारेण यथा षष्ठपृथिवीनारका अतिशयेन महत् प्रवेशनं-गत्यन्तरान्नरकगतौ जीवानां पुनः प्रवेशो येषु ते | तथा, षष्ठपृथिव्यपेक्षया असङ्ख्यगुणहीनत्वात् तन्नारकाणामिति, नोशब्द उत्तरपदद्वयेऽपि सम्बन्धनीयः, यत एवं नो महाप्रवेशनतरा अत एव 'आइण्णतराए चेव'त्ति नात्यन्तमाकीर्णाः, व्याप्ता नारकैर्नेत्यर्थः, आउलतराएत्ति ये नारकलोकास्तेषां अतिशयेन(न)आकुलतराः, किमुक्तं स्यात् ?-'अणोमाणतराए'त्ति अतिशयेनासंकीर्णा इत्यर्थः, वाचनान्तरे तु 'अणोयणतराए चेव'त्ति अनोदनतरा बहुजनाभावादतिशयेन मिथोनोदेन रहिता इत्यर्थः, 'महाकम्म' आयुष्कवेदनीयादिकर्मणां महत्त्वात् 'महाकिरिय'त्ति कायिक्यादिक्रियाणां महत्त्वात् तत्काले कायमहत्वात् पूर्वकाले च महारम्भादित्वात् 'महासव'त्ति महाश्रवतराः