SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ रोरुए ४ इति दृश्यं, इह च मध्यम एव सङ्ख्येयविस्तृत इति, नवरं 'तिसु नाणेसुन उववजंति' त्ति, 'न उच्वहंति' त्ति सम्यक्त्वभ्रष्टानामेव तत्रोत्पादात्, तत उद्वर्त्तना च, आद्याज्ञानत्रि के न उत्पद्यन्ते नापि चोद्वर्त्तन्त इति, 'पण्णत्ती तेसु तहेव अस्थि'त्ति एतेषु पञ्चसु नरकावासेसु कियन्त आभिवोधिकज्ञानिनः श्रुत० अवधिज्ञानिनश्च प्रज्ञप्ता इति, तृतीयगमे तथैव प्रथमादिपृथ्वीविव सन्ति, तत्रोत्पन्नानां सम्यग्दर्शनलाभे मत्यादिज्ञानत्रयभावादिति ॥ 'नो सम्मामिच्छदिट्ठी नेरइया उववज्रं ति' त्ति (सू. ४७०) 'न सम्ममीसो कुणइ कालेति वचनात् इति मिश्रदृष्टयो न म्रियन्ते, नापि तद्भवप्रत्ययं तेषामवधिज्ञानं येन मिश्रदृष्टयस्सन्तस्ते उत्पद्येरन् 'सम्म मिच्छद्दिकीणेरइएहिं अविरहिया विरहिया वत्ति कादाचित्कत्वेन तेषां विरहसम्भवादिति ॥ 'लेसडाणे सु' त्ति (सू. ४७१) लेश्याभेदेषु 'संकि लिस्स माणेसु'त्ति अविशुद्धिं गच्छत्सु 'कण्हलेसं परिणमइ'त्ति कृष्णलेश्यां याति, 'संकिलिस्स माणेसु व'त्ति, 'विमुज्झमाणेसु व'त्ति प्रशस्त लेश्यास्थानेषु अविशुद्धिं गच्छत्सु अप्रशस्त लेश्यास्थानेषु विशुद्धिं गच्छत्सु, नीललेश्यां परिणमतीति भावः ॥ त्रयोदशशते प्रथमः ॥ अथ द्वितीये देवा उच्यन्ते- 'संखिजवित्थडावि'त्ति (सू. ४७२) गाथा - "जंबुद्दीवसमा खलु भवणा जे हुंति सव्वखुड्डागा । संखेञ्ज वित्थडा मज्झिमा उ सेसा असंखेज ॥१॥"त्ति, 'दोहिं वेदेहिं' ति, द्वयोरपि स्त्रीवेदपुंवेदरूपयोरुत्पद्यन्ते, तयोरेव तेषु भावात्, 'असपणी उवहंति' असुरादीशानान्तदेवानां असंज्ञिष्वपि पृथिव्यादिपूत्पादात् 'ओहिनाणी ओहिदंसणी न उच्चति' असुराद्युद्धृतानां तीर्थकरादित्वालाभात् तीर्थकरादीनामेवावधिमतामुदृत्तेः, 'पण्णत्तरसु तहेव'त्ति प्रज्ञप्तदेषु प्रज्ञप्तपदोपलक्षितगमाधीतेषु असुरकुमारादिषु तथैव यथा प्रथमोदेश के, 'को हकसाई' त्यादि, क्रोधमानमायाकपायोदयवन्तो देवेषु कादाचित्का १.३ श० १-२ उ. ॥ १९४॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy