SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ श्रीभग illumpitingth illumi लघुवृत्तौ । ब अनन्तरं रत्नप्रभानारकाणामुत्पादोद्वर्तनयोः परिमाणमुक्तं, अथ तेषामेव सत्तायां तदाह-'केवइया अणंतरोववण्णग'त्ति |कियन्तः प्रथमसमयोत्पन्ना इत्यर्थः, 'परंपरोववण्णग'त्ति उत्पत्तिसमयापेक्षया द्वयादिसमयेषु वर्तमानाः,'अगंतरावगाढ'त्ति | विवक्षितक्षेत्रे प्रथमसमयावगाढाः, परंपरोवगाढ'त्ति विवक्षितक्षेत्रे द्वितीयादिः समयोऽवगाहे येषां ते परम्परावगाढाः, 'चरम'त्ति |चरमो नारकभवेषु स एव भवो येषां ते चरमाः, नारकभवस्य वा चरमसमये वर्तमानाः, अचरमास्त्वन्ये, 'असण्णी सिय अस्थि णस्थिति असंज्ञिभ्य उद्धृत्य ये नारकत्वेनोत्पन्नास्ते अपर्याप्तकावस्थायामसंज्ञिनः भूतभावत्वात् , ते चाल्पा इतिकृत्वा 'सिय अत्थी'त्यायुक्तं, मानमायालोभकषायोपयुक्तानां नोइन्द्रियोपयुक्तानां अनन्तरोपपन्नानां अनन्तरावगाढानां अनन्तराहारकाणां अनन्तपर्याप्तकानां च कादाचित्कत्वात् 'सिय अत्थी'त्यादि वाच्यं, शेषाणां च बहुत्वात् सङ्ख्याता इति वाच्यं, अनन्तरं सख्यातविस्तृतनारकावासनारकवक्तव्यतोक्ता, अथ तद्विपर्ययमाह-'तिषिण समय'त्ति उववजंति उवति पण्णत्ततिशब्देनेह सत्ता गृह्यते, एवं एते त्रयो गमाः, ओहिनाणी ओहिदंसणी संखेज्जा उबद्यावेयव्यत्ति, कथं ?, ते हि तीर्थकरादय एव स्युरिति ते स्तोकाः, स्तोक| त्वाच्च सख्याता एव, नवरं असण्णी तिसुवि गमएसु न भण्णइत्ति, कस्माद् ?, उच्यते, असंज्ञिनः प्रथमायामेवोत्पद्यन्ते, 'अस्सण्णी खलु पढमति वचनात् , 'णाणत्तं लेसासु, लेसाओ जहा पढमसए'त्ति इहाद्यपृथ्वीद्वयापेक्षया तृतीयादिपृथ्वीषु नानात्वं | लेश्यासु स्यात , ताश्च यथा प्रथमशते तथाऽध्येयाः, तत्र गाथेयम्-"काऊय दोसु तइया मीसिया नीलिया चउत्थीए । पंचमियाए मीसा किण्हा तत्तो परमकिण्हा ॥१॥" 'नवरं ओहिदंसणी ओहिनाणी न उब्वति'त्ति, कस्माद् ?, उच्यते, अवधिदर्शनिनः पङ्कप्रभादिच्युताः नारकास्तीर्थकरत्वेन नोत्पद्यन्त इत्यर्थः, 'जाव अपइट्ठाणे ति यावत्करणात् काले १ महाकाले २ रोरुए ३ माह-IN
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy